________________
ब. सं. १५
Jain Education Inte
भवान्त भन्ते इत्यार्षत्वान्मध्यव्यञ्जन लोपे रूपं भन्ते इति 'अत एत्सौ पुंसि मागध्या ( श्रीसि० ८-४-२८७ ) | मित्येकारः, अर्द्धमागधत्वादार्थस्य, 'सामायिक' उक्तनिर्वचनं, आत्मानं समभावपरिणतं करोमीत्यर्थः । कथमित्याह- 'सावद्यं' अवद्यसहितं युज्यत इति योगो व्यापारस्तं 'प्रत्याख्यामि' प्रतीति प्रतिषेधे आङाभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमीत्यर्थः । अथवा 'पञ्चक्खाभित्ति प्रत्याचक्षे 'चक्षि व्यक्तायां वाचि' इत्यस्य प्रत्याङ्पूर्वस्य रूपं, प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । 'जाव साह पज्जुवासामि' यावच्छन्दः परिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत् प्रत्याख्यामीति, मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुः तावदेव न तस्मात्परत इत्यर्थः । 'दुविहं तिविहेणं' हे विधे यस्य स द्विविधः सावद्ययोगः, स च प्रत्याख्येयत्वेन कर्म सम्पद्यतेऽतस्तं द्विविधं योग करणकारणलक्षणम्, अनुमतिप्रतिषेधस्य गृहस्थेन कर्तुमशक्यत्वात् पुत्रभृत्यादिकृतव्यापारस्य स्वयमकरणेऽप्यनुमोदनात्, 'त्रिविधेन' इति करणे तृतीया ( हेतुकर्तृकरणे० श्रीसि० २-२-४४ ), मणेणमित्यादि सूत्रोपात्तं विवरणं, मनसा वचसा कायेन चेति त्रिविधेन करणेन, न करोमि न कारयामीति सूत्रोपात्तमेव | द्विविधमित्यस्य विवरणम् अत्र उद्देशक्रममुल्लङ्घय व्यत्यासेन निर्देशस्तु योगस्य करणाधीनतादर्शनार्थं, करणाधीनता हि योगानां करणभावे भावात्तदभावेऽभावाच योगस्य, 'तस्से'ति तस्य अत्राधिकृतो योगः सम्बन्ध्यते, अवयवावयविभावलक्षणसम्बन्धे षष्ठीयं, योगस्त्रिकालविषयस्तस्यातीतमवयवं 'प्रतिक्रमामि'
For Private & Personal Use Only
ainelibrary.org