SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ***** साथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीया"विति विवेक आवश्यकवृत्तिकृतः । तत्राद्यं शिक्षापद्व्रतमाह सावद्यकर्ममुक्तस्य, दुर्ध्यानरहितस्य च । समभावो मुहूर्त तद्वतं सामायिकाह्वयम् ॥ ३७॥ | सावद्य-वाचिकं कायिकं च कर्म तेन मुक्तस्य तथा दुर्ध्यान-आर्तरौद्ररूपं तेन रहितस्य प्राणिनः मनोवाकायचेष्टापरिहारं विना सामायिकं न भवतीति विशेषणद्वयं, तादृशस्य 'मुहूर्त' घटीद्वयकालं यावत् योऽसौसमभावो' रागद्वेषहेतुषु मध्यस्थभावस्तत् 'सामायिकाह्वयं' व्रतं ज्ञेयं, समस्य-रागद्वेषविमुक्तस्य सत आयो ज्ञानादीनां लाभः प्रशमसुखरूपः समानां वा-मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणां आयो लाभः समायः, समाय एव सामायिकं, विनयादित्वादिकण् (विनयादिभ्यः ७-२-१६९) समायः प्रयोजनमस्येति वा सामायिकं, यतः-जो समो सव्वभूएसु, तसेसु थावरेसु अ। तस्स सामाइ होइ, इइ केवलिभासिअं॥१॥" सामायिकस्थश्च श्रावकोऽपि यतिरिव, यदाह-"सामाइयंमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइअं कुजा ॥१॥” अत एव तस्य देवपूजनादौ नाधिकारः, यतो भावस्तवार्थ द्रव्यस्तवोपादानं, सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन?, यदाह-"व्वथओ भावथओ, दव्वथओ बहुगुणोत्ति बुद्धि सिआ। अणिउणजणवयणमिणं, छजीवहिअंजिणा बिंति ॥१॥ आवश्यकसूत्रमपि “सामाइअं नाम सावजजोगपरिवजणं णिरवजजोग **** Jain Education For Private & Personel Use Only ** (Anjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy