________________
धर्म
॥ ८३ ॥
Jain Education
शक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्, तदापि सद्य एव परिहार्य मनोनिग्रहयतनया, यदाह मनोनि ग्रहभावनाकृत् - "साहूण सावगाण य, धम्मो जो कोइ वित्थरो भणिओ । सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिआ ॥ १ ॥ पापोपदेश हिंस्रप्रदाने च खजनादावन्यथा निर्वाहादर्शनात् दुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव, तदुक्तं लौकिकैरपि - "न ग्राह्याणि न देयानि पञ्च द्रव्याणि पण्डितैः । अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ॥ १ ॥” प्रमादाचरितेऽपि मुधैवायतनादिनिमित्तो हिंसादिदोषः, अत एवाह - " तुल्लेवि उअरभरणे, मूढअमूढाण अंतरं पिच्छ । एगाण नरयदुक्खं, अन्नेसिं सासयं सुक्खं ॥ १ ॥” यतनां विना च प्रवृत्तौ सर्वत्रानर्थदण्ड एव, अतः सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयं यतः - " जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वुडिकरी जयणा, एगंतसुहावहा जयणा ॥ १ ॥” निरर्थकपापेऽधिककर्मबन्धादिदोषोऽपि यतः - " अद्वेण तं न बंधइ, जमणट्ठेणं तु थेवबहुभावा । अट्ठे कालाईआ, निआमगा नउ अणट्ठाए ॥ १ ॥” अतश्चतुर्विधोऽप्ययं त्याज्य इति ॥ ३६ ॥ उक्तानि त्रीणि गुणव्रतानि, अथ शिक्षापदव्रतान्युच्यन्ते तत्र शिक्षणं शिक्षाऽभ्यासस्तस्यै तस्या वा पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि तानि च चत्वारि भवन्ति, तद्यथा - सामायिकं, देशावकाशिकं, पौषधोपवासः, अतिथिसंविभागश्चेति । खल्पकालिकत्वाच्चैतेषां गुणवतेभ्यो भेदः, गुणव्रतानि तु प्रायो यावजीविकानि, एतेष्वपि "सामायिकदेशावकाशिके प्रतिदिवसानुष्ठेये पुनः पुनरुच्चारणीये, पौषधोपवासाति
For Private & Personal Use Only
संग्रह.
॥ ८३ ॥
ainelibrary.org