SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तिसेवन-परिशीलनं १ जलक्रीडा-तडागजलयत्रादिषु मजनोन्मजनशृङ्गिकाच्छोटनादिरूपा, तथा आन्दोलनं वृक्षशाखादी खेलनं, आदिशब्दात्पुष्पावचयादि, तथा जन्तूनां-कुकुटादीनां योधन-परस्परेणाहननं, रिपोः संबन्धिना पुत्रपौत्रादिना वैरम्, अयमों-येन तावत्कथश्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति, तस्यापि पुत्रपौत्रादिना यबैरं तत् प्रमादाचरणम् । भक्तकथा यथा-इदं चेदं मांस्याकमाषमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा १, स्त्रीकथा यथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा “कर्णाटी सुरतोपचारचतुरा लाटा विदग्धा प्रिये"त्यादिरूपा वा २, तथा देशकथा यथा-दक्षिणापथः प्रचुरानपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्तुगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कम, मधुराणि द्राक्षादाडिमकपित्थादीनि, पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारीत्यादि ३, राजकथा यथा-शरोऽस्मदीयो राजा, सधनाश्चेडा, गजपतिौडः, अश्वपतिस्तुरुष्क इत्यादि।एवं प्रतिकूला अपि भक्तादिकथा वाच्याः, इति मद्यादिपश्चविधप्रमादस्य प्रपञ्चः। तथा तत्रैव "विलासहासनिष्ठयूतनिद्राकलहदुष्कथाः। जिनेन्द्रभवनस्यान्तराहारं च चतुर्विध॥१॥"मिति।जिनेन्द्रभवनस्य मध्ये विलासं-कामचेष्टां, हासं-कहकहध्वानहसनं, निष्ठयूतं निष्ठीवनं, कलहं-राटी, दुष्कथां-चौरपारदारिकादिकथां, चतुर्विधाहारं अशनपानखाद्यस्वाद्यरूपं, परिहरेदिति पूर्वतः संबन्धनीयमिति । तथाऽऽलस्यादिना घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधि SAGARLALGAOGALLER ॥८२॥ JainEducationine For Private Personal use only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy