SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ACCORLOSRUSHEOGRAMMAAMSANS शोऽयं, एवं प्रत्यासीदति वर्षाकालो, दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां दलफलादि, अतिक्रामति वापकाली, भृताः केदारा गाह्यन्तां साईदिनत्रयमध्ये, उप्यन्तां च ब्रीहया, जातावस्था कन्यका विवाह्यतांशीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतः श्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना विधेया, यतो योगशास्त्रे "वृषभान् दमय क्षेत्र, कृष षण्डय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥१॥” इति । तथा हिंसन्तीति हिंसका-हिंसोपकरणानि आयुधानलविषादयस्तेषामर्पणं-दानं हिंसकार्पणं, हिंस्रमपि हि उत्सर्गतो न देयम्, अपवादतस्तु दाक्षिण्यादिविषये|8| यतना कार्या, यतो योगशास्त्रे-“यन्त्रलाङ्गलशस्त्राग्निमुशलोलूखलादिकम् । दाक्षिण्याविषये हिंस्रं, नार्पयेत् करुणापरः॥१॥” इति । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणमिति, प्रमादश्च "मजं विसय कसाया, णिद्दा विकहा य पञ्चमी भणिय"त्ति पञ्चविधस्तदाचरणमपि वर्ण्यमेव, एतत्प्रपञ्चो योगशास्त्रे यथा-"कुतूहलाद्गीतनृत्ये, नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् ॥ १॥ जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराटकथा ॥२॥ रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः॥३॥" वृत्तिलेशो यथा-कौतुकानिरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणं, कुतूहलग्रहणाजिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणं, तथा कामशास्त्रे-वात्स्यायनादिकृते प्रसक्तिः-पुनः पुनः शीलनं, द्यूतमये प्रसिद्ध, आदिशब्दान्मृगयादि, तस्य ASSACRECORRECAUSAMOMSAROCAL णिहा विकहा, याष्टकादिनिरीक्षणम् । कदमा वरं, भक्तस्त्रीदेशरादक। "वृत्तिलेशो यथाच प्रमादाचरणं, 15 Jain Education in For Private & Personel Use Only Lalmjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy