SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ संग्रह. हारः 'तातीयीक' तृतीयमेव तातीयीकं खार्थे टीकण्प्रत्ययः (तीयाट्टीकण् खार्थे न विद्या चेत् श्रीसि०७२-1 १५३) गुणव्रतं भवतीत्यक्षरार्थः। भावार्थस्त्वयम्-यः खखीयखजनादिनिमित्तं विधीयमानो भूतोपमर्दः सोऽर्थदण्डः सप्रयोजन इतियावत्, प्रयोजनं च येन विना गाहस्थ्यं प्रतिपालयितुं न शक्यते, सोऽर्थदण्डः, विपरीतस्त्वनर्थदण्ड इति, यदाह-"जं इंदियसयणाई, पडुच्च पावं करेज सो होई । अत्थे दंडो इत्तो, अन्नो उ अणत्थदंडोत्ति ॥१॥” ॥ ३५ ॥ उक्तमनर्थदण्डविरमणव्रतखरूपम् । अथानर्थदण्डभेदानाह सोऽपध्यानं पापकर्मोपदेशो हिंसकार्पणम् । प्रमादाचरणं चेति, प्रोक्तोऽर्हद्भिश्चतुर्विधः ॥ ३६॥ 'स' अनर्थदण्डः 'अपध्यानं 'पापकर्मोपदेशो 'हिंसकार्पणं' 'प्रमादाचरणं' च 'इति एवंप्रकारेश्चतुर्विधः 'अहद्भिः' जिनैः 'प्रोक्तः' प्रज्ञप्तः, यतः सूत्रम्-"अणत्थादंडे चउविहे पण्णत्ते तंजहा-अवज्झाणायरिए, पमायायरिए, हिंसप्पदाणे, पावकम्मोवएसे अ"त्ति । तत्राप्रशस्तं यत् ध्यान-स्थिराध्यवसानलक्षणं तदपध्यानं, तचातरौद्रभेदाविधा, तत्र ऋतं-दुःखं तत्र भवमार्त्त, यदि वा आतिः-पीडा यातनं च तत्र भवमात, रोदयति परानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रं, एतत्परिमाणं चान्तमुहर्त्त, यतो हेमसूरिपादाः-"वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं, मुहर्त्तात्परतस्त्यजेत् ॥१॥” इति । तथा पातयति नरकादाविति पापं तत्प्रधानं तहेतुभूतं वा कर्म पापकर्मकृष्यादि तस्योपदेशः-प्रवर्तनवाक्यं पापकर्मोपदेशः, सच यथा"क्षेत्रं कृष, वृषवृन्दं दमय, हयान् षण्डय, (शण्ढय) कथय शत्रून , यत्रं वाहय, शस्त्रं सज्जय, पापोपदे मोपदेशो सिमानर्थदण्डविरमण, पडच पावं करनपालयितुं न शापमानो भूतोप पदेशो हिंसादाचरणं चेतियानर्थदण्डभेदभत्थे दंडो इत्त SCANCARNAMA ASAMICG ॥८१॥ Jain Education in For Private Personel Use Only Nagainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy