________________
Jain Education In
२ घृत ३ तैल ४ गुड़ ५ सर्वपक्कान्न ६ भेदात् ३ । 'वाणहन्ति उपानयुग्मं मोचकयुग्मं वा, काष्ठपादुकादि तु बहुजीवविराधनाहेतुत्वात्त्याज्यमेव श्रावकैः ४ । ताम्बूलं पत्रपूगखदिरवटिकाकत्थकादि खादिमरूपं ५ । वस्त्रं पञ्चाङ्गादिर्वेषः धौतिकपौतिकरात्रिवस्त्रादि वेषे न गण्यते ६ । कुसुमानि शिरःकण्ठक्षेपशय्योच्छीर्षकाद्यर्हाणि, तन्नियमेऽपि देवशेषा कल्पते ७। वाहनं रथाश्वादि ८ । शयनं खट्टादि ९ । विलेपनं भोगार्थं चन्दनजवादिचूअकस्तूर्यादि तन्नियमेऽपि देवपूजादौ तिलकस्वहस्तकङ्कणधूपनादि कल्पते १० । अब्रह्म दिवा रात्रौ वा पल्याद्याश्रित्य ११ । दिक्परिमाणं सर्वतोऽमुकदिशि वा इयदवधिगमनादिनियमनं १२ । स्नानं तैलाभ्यङ्गादिपूर्वकं, देवपूजार्थ करणे न नियमभङ्गः, लौकिककारणे च यतना रक्ष्या १३ । भक्तं राद्धधान्यसुख भक्षिकादि सर्व त्रिचतुः सेरादिमितं, खडबूजादिग्रहणे बहवोऽपि सेराः स्युः १४ । एतदुपलक्षणत्वादन्येऽपि शाकफलधान्यादिप्रमाणारम्भनैयत्यादिनियमा यथाशक्ति ग्राह्याः ॥ ३४ ॥ इत्युक्तं भोगोपभोगव्रतम् । अथ तृतीयमनर्थदण्डविरमणाख्यं गुणव्रतमाह
शरीराद्यर्थविकलो, यो दण्डः क्रियते जनैः । सोऽनर्थदण्डस्तत्त्यागस्तात्तयीकं गुणवतम् ॥ ३५ ॥ शरीरं देह आदिशब्दात् क्षेत्रवास्तुधनधान्यपरिजनादिपरिग्रहस्तद्विषयो योऽर्थ :- प्रयोजनं तेन विकलोरहितो निष्प्रयोजन इत्यर्थः; 'यो' 'दण्डः' दण्ड्यते पापकर्मणा लुप्यते येन स दण्डः भूतोपमर्दः 'जनैः' मुग्धलोकैः 'क्रियते' विधीयते 'सोऽनर्थदण्डः' निष्कारणभूतोपमर्द्दलक्षणो दण्ड इतियावत्, 'तत्त्यागः' तत्परि
For Private & Personal Use Only
ainelibrary.org