________________
॥८
॥
BARRA
न व्यापार्याणि, रात्रिव्यापारणेऽपि दिवा संशोधनादियतनाया एव मुख्यता, ब्रह्मचारिणा तु कामाङ्गत्वा
संग्रह. त्याज्यान्येव, सचित्तभक्षणे दोषस्तु अनेकजीवविराधनारूपः, यतः प्रत्येकसचित्तेऽप्यकस्मिन् पत्रफलादावसङ्घयजीवविराधनासंभवः, यदागमः “जं भणिअं पजत्तगनिस्साए वुक्कमंत अपजत्ता । जत्थेगो पजत्तो, तत्थ असंखा अपजत्ता ॥१॥" बादरेष्वेकेन्द्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ प्रोक्तम्, एवमेकस्मिन्नपि पत्रादावसङ्ख्यजीवविराधना तदाश्रि-12 तजलनील्यादिसंभवे त्वनन्ता अपि, जललवणादि चासङ्खयजीवात्मकमेव, यदार्षम्-"एगंमि उद्गबिंदुमि,81 जे जीवा जिणवरेहिं पण्णत्ता। ते जइ सरिसवमित्ता, जंबुद्दीवे न मायंति ॥१॥ अद्दामलगप्पमाणे, पुढविकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायंति ॥ २॥” सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशतशिष्यनिदर्शनं, एवं सचित्तत्यागे यतनीयमिति प्रथमनियमः १। सचित्तविकृतिवर्ज यन्मुखे क्षिप्यते तत्सर्व द्रव्यं, क्षिप्रचटीरोटिकानिर्विकृतिकमोदकलपनश्रीपर्पटिकाचूरिमकरम्बकक्षरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यम्, एकधान्यनिष्पन्नान्यपि पूलिकास्थूलरोहकमण्डकखर्खरकघूघरीढोकलथूलीवा(बा)टकणिक्कादीनि पृथक् पृथक् नामावादद्वत्त्वेन पृथक् पृथक् द्रव्याणि, फलफलिकादौ | तु नामैक्ये भिन्नभिन्नाखाव्यक्तेः परिणामान्तराभावाच्च बहुद्रव्यत्वम्, अन्यथा वा सम्प्रदायादिवशाद्रव्याणि गणनीयानि, धातुमयशिलाकाकराडल्यादिकं द्रव्यमध्ये न गणयन्ति २। विकृतयो भक्ष्याः षट्,दुग्ध १ दधि-17
MOCOCONCLUCLOCALCCC
Jain Education
a
l
For Private & Personel Use Only
djainelibrary.org