________________
Jain Education Int
|ऽचेतनस्यापि कङ्कडुकमुद्गहरीतकीकुलिकादेरविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च न दन्तादिभिर्भज्यते (र्भञ्जनं), यदुक्तं श्रीओघनिर्युक्तिपञ्चसप्ततितमगाथावृत्तौ – “अचित्तानामपि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्याद्गचीमुद्गादीनां, तथाहि-गुडुची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यते, एवं कङ्कड्डुकमुद्वादिरपि, अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति” एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमव्रतं नामग्राहं सचित्तादिसर्व भोग्य वस्तुनैयत्यकरणादिना स्वीकार्य, यथाऽऽनन्दकामदेवादिभिः स्वीकृतं, तथाकरणाशक्तौ तु सामान्यतोऽपि सचित्तादिनियमाः कार्याः, ते चैवम्, “सचित्त १ दव्व २ विगई ३, वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसुं ७ । वाहण ८ सयण ९ विलेवण १० बंभ ११ दिसि १२ ण्हाण १३ भत्तेसुं १४ ॥ १ ॥ तत्र मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहं, तथाऽप्यशक्ती सामान्यत एकद्व्यादि नियम्यं यतः - “निरवज्जाहारेण " मिति पूर्वलिखिता गाथेति परं प्रतिदिनैकसचित्ताभिग्रहिणो हि पृथक पृथक दिनेषु परावर्त्तनेन सर्वसचित्तग्रहणमपि स्यात्, तथाच न विशेषविरतिः, नामग्राहं सचित्ताभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम्, उक्तंच - "पुप्फफलाणं च रसं, सुराइ मंसाण महिलिआणं च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ १ ॥ सचित्तेष्वपि नागवल्लीदलानि | दुस्त्यजानि, शेषसचित्तानां प्रायः प्रासुकीभवनं खल्पकालमध्येऽपि दृश्यते, एषु तु निरन्तरं जलक्लेदादिना सचित्तता सुस्थैव, कुन्ध्वादिविराधनापि भूयसी च, तत एव पापभीरुणा त्याज्यानि, अन्यथाऽपि रात्रौ
For Private & Personal Use Only
jainelibrary.org