________________
॥७९॥
द्वद्वदा न शाम्यन्ति वादिभिरेषु कालनियममा गहणं, ठिअवार
यत्प्रथमं पतति तत्पतितमात्रं मिश्र, पश्चानिपतत् सचित्तम्, आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्रम् , अतिखच्छीभूतं त्वचित्तम् । अत्र त्रय आदेशा यथा-केचिद्वदन्ति तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्चे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् , अपरेतु तथैव जाता यावद्बुद्बुदा न शाम्यन्ति तावत्, अन्ये तु यावत्तन्दुला न सिद्ध्यन्ति तावत्, एते त्रयोऽप्यादेशा अनादेशाः, रुक्षेतरभाण्डपवनाग्निसम्भवादिभिरेषु कालनियमस्याभावात्, ततोऽतिखच्छीभूतमेवाचित्तं । “नीव्वोद
गस्स गहणं, केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो॥२॥" नीबोपदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीबसम्पर्कादचित्तम्, अतस्तद्रहणे न काचिद्विराधना, केचिदाहुः
-खभाजनेषु तद्राह्य, अत्राचार्यः प्राह-अशुचित्वात्खपात्रेषु ग्रहणप्रतिषेधः, ततो गृहिभाजने कुण्डिकादौ ग्राह्य, वर्षति मेघे च तन्मिभं, ततः स्थिते वर्षेऽन्तमुहर्तादूद्ध ग्राह्य, जलं हि केवलं प्रासुकीभूतमपि प्रहर|त्रयादूचं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षेप्या, एवं खच्छतापि स्यादिति पिण्डनियुक्तिवृत्तौ । तन्दुलधावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि, प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ-"उसिणोदगं तिदंडुक्कलिअं फासुअजलं जईकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअव्वं ॥१॥ जायइ सचित्तया से, गिम्हासुं पहरपंचगस्सुवरिं । चउपहरुवरि सिसिरे, वासासु जलं तिपहरुवरिं ॥२॥" तथा-14
Jain Education Inter
For Private & Personel Use Only
gainelibrary.org