SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ धारणं तत्ततो व्यवस्थितं खोपष्टम्भकाहारविच्छेदाद्विध्वस्यते; तच्च लवणादि 'भाण्डसंक्रान्त्या' पूर्वस्मात् पूर्वस्मात् भाजनादपरभाजनेषु यदा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां संक्रम्यमाणं विध्वस्पते, तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति, लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः "हरियालमणोसिलपिप्पलीअखजुरमुद्दिआ अभया । आइन्नमणाइन्ना, तेविहु एमेव नायचा |॥२॥"हरितालं मनःशिला पिप्पली च खजूरः एते प्रसिद्धाः, मुद्रि(मृद्वी)का द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राचीर्णाः, अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते, खजूरमुद्रि(मृद्वी)कादयः पुनरनाचीर्णा इति न गृह्यन्ते। अथ सर्वेषां सामान्येन परिणमनकारणमाह-"आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउम्हा। भूम्माहारोच्छेए, उवकमेणं च परिणामो॥३॥" शकटादिषु लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौलवणादिभारोपरि मनुष्या निषीदन्ति,तेषांगवादीनांच यः कोऽपि पिष्टा(पृष्ठा)दिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तव्यवच्छेदे, तस्य परिणामः, उपहै क्रमः-शस्त्रं, तच्च विधा-खकायपरकायतदुभयरूपं, तत्र स्खकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पाण्डुभूमस्य, परकायशस्त्रं यथा-अग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा-उदकमृत्तिका शुद्धोदक६ स्वेत्यादि, एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तब्यानि, उप्पलपउमाई पुण, उण्हे दिण्णाइँ CAM-CONGRA JainEducation For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy