SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संग्रह. चिटिकादीनि सचित्तान्त/जानि सर्वपक्कफलानि च मिश्राणि, यद्दिने तिलकुहिः कृता तद्दिने मिश्रा, मध्येऽन्नरोटिकादिक्षेपे तु मुहर्तादनु प्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः, वृक्षात्तत्कालगृहीतं गुन्दलाक्षाछयादि तात्कालिको नालिकेरनिम्बूकनिम्बाप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं तत्कालभग्नं निर्बीजीकृतं नालिकेरशृङ्गाटपूगीफलादि निर्बीजीकृतानि पक्कफलानि गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहर्तादृवं तु प्रासुकानीति व्यवहृतिः, अन्यदपि प्रबलानियोग विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवहियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्यादिप्रबलशस्त्रं विना न प्रासुकानि, योजनशतात्परत आगतानि हरीतकीखारिकीकिसिमिसिद्राक्षाखजूरमरिचपिप्पलीजातिफलबदामवायमअक्षोटकनमिजांपिस्तांचिणीकबाबास्फटिकानुकारिसैन्धवादीनि सर्जिकाबिडलवणा दिः कृत्रिमः क्षारः कुम्भकारादिपरिकर्मितमृदादिकं एलालविङ्गजावित्रीशुष्कमुस्ताकोङ्कणादिपककदलीफदलान्युत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीतिव्यवहारो दृश्यते, उक्तमपि श्रीकल्पे-"जोयणसयं तु । गतं(गन्ता), अणहारेणं तु भंडसंकंती । वायागणिधूमेण य, विद्धत्थं होइ लोणाइ ॥१॥"-लवणादिकं द्र स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तम्-अचित्तं भवति, शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह-'अनाहारेण यदुत्पत्तिदेशादिकं सा ॥७७॥ Jan Education in For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy