SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रतिपादयन्नाज्ञाविराधकः स्यात्, यतः-"जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ । सो ससमयपन्नवओ, सिद्धतविराहओ अन्नो ॥१॥” इत्यामगोरससम्पृक्तद्विदले पुष्पितौदनेऽहतियातीते दनि ४ कुथितान्ने च न हेतुगम्यो जीवसद्भावः, किन्वागमगम्य एव, तेन तेषु ये जन्तवस्ते केवलिभिदृष्टा इति २२ । अभक्ष्याणि द्वाविंशति, वर्जयेत् इति पूर्व योजितमेवेति श्लोकत्रयार्थः । योगशास्त्रे तु षोडश वर्जनीयानि प्रतिपादितानि यथा-"मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥१॥ आमगोरससम्पृक्तं, द्विदलं पुष्पितौदनम् । ध्यहतियातीतं, कथितान्नं च वर्जयेत् ॥२॥" अन्यसकलाभक्ष्यवर्जनं च, “जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः ॥३॥” इति सङ्ग्रहश्लोकेनोक्तम् । अत्र च सप्तमव्रते सचित्ताचित्तमिश्रव्यक्तिः श्राद्धविध्युक्ता पूर्व सम्यक् ज्ञेया युज्यते यथा चतुर्दशादिनियमाः सुपाल्या भवन्तीति, तद्यक्तिर्यथा-प्रायः सर्वाणि धान्यानि धानकजीराजमकविरहालीसूआराईखसखसप्रभृति(प्रभृतयः) सर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकः रक्तसैन्धवसञ्चलादिरकृत्रिमः क्षारो मृत्खटी वर्णिकादि आर्द्रदन्तकाष्ठादि च व्यवहारतः सचित्तानि, जलेन खेदिताश्चणकगोधूमादिकणाश्चणकमुद्गादिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासंभवान्मिश्राः, तथा पूर्व लव णादिप्रदानं बाष्पादिप्रदानं वालुकादिक्षेपं वा विना सेकिताचणका गोधूमयुगन्धर्यादिधानाः क्षारादिप्रदानं द्रविना लोलिततिला ओलकउम्बिकापृथुकसेकितफलिकापपेटिकादयो मरिचराजिकावधारादिमात्रसंस्कृत AAAAAAASAR Jain Education For Private Personel Use Only alinelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy