SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ७५ ॥ Jain Education In वज्रकन्दोऽपि कन्दविशेष एव २, आर्द्राऽशुष्का हरिद्रा प्रतीतैव ३, आर्द्रकं शृङ्गबेरं ४, आर्द्रकच्च (च) रस्तिक्तद्रव्यविशेषः प्रतीत एव ५, शतावरी ६व (बि) रालिके ७ वल्लीभेदौ, कुमारी मांसलप्रणालाकारपत्रा प्रतीतैव ८, थोहरी स्नुहीतरुः ९, गडूची वल्लीविशेषः प्रतीत एव १०, लशुनः कन्दविशेषः ११, वंशकर (रि)ल्लानि कोमलाअभिनववंशावयवविशेषाः प्रसिद्धा एव १२, गर्जरकाणि सर्वजनविदितान्येव १३, लवणको वनस्पतिविशेषो, | येन दग्धेन सर्जिका निष्पद्यते १४, लोढकः पद्मिनीकन्दः १५, गिरिकर्णिका वल्ली विशेषः १६, किसलयरूपाणि पत्राणि प्रौढपत्रादवकू बीजस्योच्छ्नावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव १७, खरिंशुकाः कन्दभेदाः १८, थेगोऽपि कन्दविशेष एव १९, आर्द्रा मुस्ता प्रतीता २०, लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य छविस्त्वक् नत्वन्येऽवयवाः २१, खिल्लहडो लोकप्रसिद्धः कन्दः २२, अमृतवल्ली वल्लीविशेषः २३, मूलको लोकप्रतीतः २४, भूमिरुहाणि छन्त्रकाणि वर्षाकालभावीनि भूमिस्फोटका नीतिप्रसि द्धानि २५, विरूढान्यङ्कुरितानि द्विदलधान्यानि २६, ढङ्कवास्तुलः शाकविशेषः, स च प्रथमोद्गत एवानन्तकायिको नतु छिन्नप्ररूढः २७, शूकरसंज्ञको वल्लः, स एवानन्तकायिको न तु धान्यवल्लः २८, पल्यङ्कः २९, कोमलाम्लिका अबद्धास्थिका चिश्चिणिका ३० आलुक३१पिण्डाल (लु) कौ ३२ कन्दभेदी, एते पूर्वोक्ताः पदार्थाः द्वात्रिंशत्सङ्ख्या अनन्तकायनामभिर्भवन्तीत्यर्थः, न चैतावन्त्येवानन्तकायिकानि, किंत्वन्येऽपि, सधाह - | 'अन्यदपि ' पूर्वोक्तातिरिक्तमनन्तकायिकं 'लक्षणयुक्त्या' वक्ष्यमाणलक्षणविचारणया 'समयात्' सिद्धान्ततः, For Private & Personal Use Only संग्रह. ।। ७५ ।। jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy