________________
SRISAIRAALAISAXO
धर्मपरायणः कृपालुत्वात्त्यजेदिति १७ । अनन्ताः कायिका जीवा यत्र तत् अनन्तकायिकं अनन्तजन्तुसन्ताननिपातननिमित्तत्वात् वय॑म् , यतः-"नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणो, यक्षाद्या ज्वलनो यथोत्तरममी सङ्ख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः
शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः॥१॥” तानि आर्यदेशप्रसिद्धानि द्वात्रिंशत्तदाहुः-सव्वा य सकंदजाई १ सूरणकंदो अ वजकंदो २ अ। अल्लहलिहा य ३ तहा, अल्लं ४ तह अल्लकचूरो ५॥१॥ सत्तावरी |६ विराली ७, कुँआरि ८ तह थोहरी ९ गलोई अ१० । लसुणं ११ वंसकरिल्ला १२, गज्जर १३ लूणो अ १४ तह लोढा १५॥२॥ गिरिकण्णि १६ किसलिपत्ता १७, खरिंसुआ १८ थेग १९ अल्लमुत्था य २० । तह लूणरुक्खछल्ली २१, खिल्लहडो २२ अमयवल्ली अ २३ ॥३॥ मूला २४ तह भूमिरहा २५, विरुआ २६ तह ढक्क(ढंक)वत्थुलो पढमो २७ । सूअरवल्लो अ२८ तहा, पल्लंको २९ कोमलंबिलिआ ३०॥४॥ आलू ३१ तह पिंडालू ३२, हवंति एए अणंतनामेणं । अन्नमणंतं नेअं, लक्खणजुत्तीइ समयाओ॥५॥ व्याख्या-सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सम्भवति, श्रीहेमसूरिरप्येवमेव "आर्द्रः कन्दः समग्रोऽपि-आोऽशुष्कः कन्दः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न सम्भवतीतियोगशास्त्रसूत्रवृत्त्यो-10 राह" अथ तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामत आह-सूरणकन्दः अर्शोन्नः कन्दविशेषः १,
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org