________________
धर्म
संग्रह.
॥७३॥
कादिसूचकं, लक्षणस्याऽऽमाश्रयादिदोषजनकत्वात्, मृद्रहणं चोपलक्षणं, तेन सुधाद्यपि वर्जनीयं, तद्भक्षकस्यान्त्रशाटाद्यनर्थसम्भवात्, मृद्भक्षणे चासङ्खयेयपृथिवीकायविराधनाद्यपि, लवणमप्यसङ्ख्यपृथिवीकायात्मकमिति सचित्तं त्याज्यं, प्रासुकं ग्राह्य, प्रासुकत्वं चान्यादिप्रबलशस्त्रयोगेनैव, नान्यथा, तत्र पृथिवीकायजीवानामसङ्खयेयत्वेनात्यन्तसूक्ष्मत्वात् , तथाच पञ्चमाङ्गे १९ शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थः-'वज्रमय्यांश | शिलायां खल्पपृथिवीकायस्य वज्रलोष्टकेनकविंशतिवारान् पेषणे सत्येके(सन्त्यके) केचन जीवा येस्पृष्टा अपि नेति' १३ । तथा रात्री-नक्तं भोजन-भुक्तिः रात्रिभोजनं, तदपि हेयं, बहुविधजीवसम्पातसम्भवेनैहिकपारलौकिकानेकदोषदुष्टत्वात्, यदभिहितम्-"मेहं पिवीलिआउ, हणंति वमणं च मच्छिआ कुणइ । जूआ जलोदरतं, कोलिअओ कोट्ठरोगं च ॥१॥ वालो सरस्स भंगं, कंटो लग्गइ गलंमि दारुं च । तालुमि विंधइ अली, वंजणमझमि भुजंतो ॥२॥” व्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं, तद्न्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यामूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वाभोज्यता संभवतीतिविशेषः । निशीथचूर्णावपि | "गिहकोइलअवयवसम्मिस्सेण भुत्तेण पोहे किल गिहकोइला संमुच्छंति" एवं सादिलालामलमूत्रादिपाताद्यपि; तथा "मालिंति महिअलं जामिणिसु रयणीअरा य (भ) मंतेणं । तेवि च्छलंति हु फुडं, रयणीए
॥७३॥ मुंजमाणं तु ॥१॥” अपि च-निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी, तत्र षड्जीवनिकायवधोऽ४ वश्यंभावी, भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च
RRRRRRRRR
Jain Education International
For Private Personel Use Only
www.jainelibrary.org