________________
एव घातका यन्न, वधको भक्षकं विना ॥१॥” इति २। मधु च माक्षिकं १ कौन्तिकं २ भ्रामरं ३ चेति त्रिधा, इदमपि बहुप्राणिविनाशसमुद्भवमिति हेयं, यतः--"अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्कः खादयति माक्षिकम्?" ॥१॥ इति । नवनीतं अपि गोमहिष्यजाविसम्बन्धेन चतुर्दा, तदपि सूक्ष्मजन्तुराशिखानित्वात्त्याज्यमेव, यतः-"अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति |तन्नाऽद्यं, नवनीतं विवेकिभिः॥१॥” इति ४ । तथा उदुम्बरकेनोपलक्षितं पञ्चकं वट १ पिप्पलो २ दुम्बर३ प्लक्ष ४ काकोदुम्बरी ५ फललक्षणं उदुम्बरकपञ्चकं, मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीयं, यतो योगशास्त्रे-"उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम्। पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥१॥” लोकेऽपि "कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात्। येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते(च गलिते) निर्यात्यसौ वा नवा ॥१॥" ९। तथा 'हिम' तुहिनं तदप्यसङ्खयेयाप्कायरूपत्वात् त्याज्यम् १०॥ विषं' अहिफेनादि मन्त्रोपहतवीर्यमप्युदरान्तर्वर्तिगण्डोलकादिजीवघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच हेयं ११ । 'करका द्रवीभूता आपः असङ्ख्याकायिकत्वात् वाः, नन्वेवमसङ्घयाप्कायमयत्वेनाभक्ष्यत्वे जलस्याप्यभक्ष्यत्वापत्तिः, इति चेत्सत्यम्, असङ्घयजीवमयत्वेऽपि जलमन्तरा निर्वाहाभावान्न तस्य तथोक्तिः १२। तथा 'मृजातिः' सर्वापि से मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तवादिना मरणाद्यनर्थकारित्वात् त्याज्या, जातिग्रहणं खटि
“कोऽपि कापपरवलक्षकाकोदुम्बरशाम्बरकपञ्चकं, मशकाकारपिलक्षितं पञ्चकं वर
5505505ASCARSANSAR
ध. सं. १३
Jain Education indical
For Private & Personel Use Only
jainelibrary.org