________________
धर्म
॥ ७२ ॥
निंदापरिभवउवहासरो समयहेऊ । भज्जं दुग्गइमूलं, हरिसिरिमइधम्मनासकरं ॥ १ ॥” तथा “ रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातक भीरुणा ॥ २ ॥ दत्तं न दत्तमात्तं च, नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, खैरं वदति मद्यपः ॥ ३ ॥ गृहे बहिर्वा मार्गे वा, परद्रव्याणि सूढधीः । वधयन्धादिनिर्भीको, गृह्णात्याच्छिद्य मद्यपः ॥ ४ ॥ बालिकां युवतिं वृद्धां ब्राह्मणीं श्वपचीमपि । भुङ्क्ते परस्त्रियं सयो, मद्योन्मादकदर्शितः ॥ ५ ॥ विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादपि ॥ ६ ॥ श्रूयते किल शाम्बेन, मद्यादन्धकवृष्णिना । हतं वृष्णिकुलं सर्व, | लोषिता च पुरी पितुः ॥ ७ ॥ १ । मांसं त्रेधा- जलचरस्थलचरखे चरजन्तूद्भवभेदाच्चर्मरुधिरमांसभेदादा, तद्भक्षणमपि महापापमूलत्वाद्वर्ण्यम्, यदाहुः – “पंचिदिअवहभूअं मंसं दुग्गंधमसुइबीभच्छं । रक्खपरितुलिअभक्खगमामयजणयं कुगइमूलं ॥ १ ॥ आमासु अ पक्कासु अ, विपञ्चमाणासु मंसपेसीसुं । सययं चिअ उववाओ, भणिओ अ निगोअजीवाणं ॥ २ ॥ " योगशास्त्रेऽपि - " सद्यः संमूच्छितानन्तजन्तुसन्तानदृषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात्पिशितं सुधीः ? ॥ ३ ॥ " 'सद्यो' जन्तुविशसनकाल एव 'संमूर्च्छिता' उत्पन्ना 'अनन्ता' निगोदरूपा ये जन्तवस्तेषां 'संतान' पुनः पुनर्भवनं तेन दूषितमिति तद्वृत्तिः । मांसभक्षकस्य च घातकत्वमेव । यतः - " हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च, घातका एव यन्मनुः ॥ ४ ॥” तथा भक्षकस्यैवान्यपरिहारेण वधकत्वं, यथा- "ये भक्षयन्त्यन्यपलं, खकीयपलपुष्टये । त
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ ७२ ॥
www.jainelibrary.org