SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ACROSSR ओवि अकम्मा ण तरइ जीविउं ताहे अच्चंतसावजाणि परिहरिजति'त्ति । इत्थं चेदं भोगोपभोगव्रतं भोक्तं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति पर्यवसितमिति च ॥३१॥ श्लोकत्रयेण वर्जनीयानाह-13 चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृज्जाती रात्रिभोजनम् ॥ ३२॥ बहुवीजाज्ञातफले, सन्धानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च ॥ ३३ ॥ आमगोरससंपृक्तद्विदलं चेति वर्जयेत् । द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ॥ ३४ ॥ | त्रिभिर्विशेषकम् । जैनधर्मेणाहद्धर्मेणाऽधिवासितो भावितात्मा पुमान् 'द्वाविंशति' द्वाविंशतिसङ्ख्याकानि 'अभक्ष्याणि' भोक्तुमनहाणि 'वर्जयेत्' त्यजेदिति तृतीयश्लोकान्तेन सम्बन्धः, तानेवाह-'चतुर्विकृतय' इति चतुरवयवा विकृतयश्चतुर्विकृतयः, शाकपार्थिवादित्वात्समासः, कीदृश्यस्ताः ? 'निन्द्या सकलशिष्टजननिन्दाविषया मद्यमांसमधुनवनीतलक्षणा इत्यर्थः। तद्वर्णानेकजीवमूर्च्छनात्, तथा चाहु:-"मजे महुंमि मंसंमी, नवनीए चउत्थए । उप्पजंति चयंति अ, तव्वण्णा तत्थ जंतुणो॥१॥" परेऽपि “मधे मांसे मधुनि च, नवनीते चतुर्थक । उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा जन्तुराशयः॥१॥” इति । तत्र मद्यं मदिरा, तच विधा-काष्ठनिष्पन्नं पिष्टनिष्पन्नं चेति, एतच्च बहुदोषाश्रयान्महानर्थहेतुत्वाच त्याज्यम्, यदाह-"गुरुमोहकलह-|| । *ISRESORAS Jan Eduent an in For Private & Personal Use Only w ww.iainelibrary.org ex
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy