________________
Jain Education Inte
तयो भोगोपभोगयोर्यत् 'सङ्ख्याविधानं' परिमाणकरणं भवति, कुतः ? 'खशक्तितः' निजशक्त्यनुसारेण 'तद्' भोगोपभोगमानाख्यं' भोगोपभोगपरिमाणनामकं 'द्वितीयं' 'गुणत्रतं' ज्ञेयम् । आवश्यके त्वेतद्वतस्योपभोगपरिभोगव्रतमिति नामोच्यते, तथा च सूत्रम् - " उवभोगपरिभोगवए दुविहे पण्णत्ते, तंजहा - भोअणतो कम्मओ अ" ति । एतद्वृत्तिर्यथा उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः, अशनपानादेः, अथवाऽन्तर्भोग उपभोगः आहारादेः, उपशब्दोऽत्रान्तर्वचनः । परिभुज्यत इति परिभोगः, परिशब्दो ऽसकृद्वृत्तौ वर्त्तते, पुनः पुनर्भोगः परिभोगो वस्त्रादेः, बहिर्भोगो वा परिभोगो वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति । एतद्विषयं व्रतं उपभोगपरिभोगवतं । तथा च प्रकृते निपातानामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तत्समभिव्याहारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिद्विरोध इति ध्येयम् । इदं च द्विविधं, भोजनतः कर्मतश्च, उपभोगपरिभोगयोरा सेवाविषययोर्वस्तुविशेषयोस्तदु पार्जनोपायभूतक|र्मणां चोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतमिति व्युत्पत्तेः । तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेति, अत्रेयं भावना - श्रावकेण हि तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यं तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन् वर्जयता प्रत्येकमिश्र सचित्तादीनां प्रमाणं कार्य, भणितं च - "निरव - ज्जाहारेणं १, निजीवेणं २ परित्तमी सेणं ३ | अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥ १ ॥ एवमुत्सवा
For Private & Personal Use Only
ijainelibrary.org