SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ "भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥१॥ भूमिः क्षेत्रं, गृहाणि प्रासादा., तरुगणा नालिकांद्यारामा इति त्रिधा स्थावरं, चक्रारबद्धं गच्यादि मानुषं दासादीति M द्विधा द्विपदं, चतुष्पदं दशधा यथा-"गावी महिसी उद्दी, अयएलग आस आसतरगा य । घोडग गद्दह हत्थी, चउप्पयं होइ दसहा उ॥ १ ॥” एते प्रतीताः, नवरमस्यां वाहीकादिदेशोत्पन्ना जात्या, अश्वतरा हवेसराः, अजात्या घोटकाः, नानाविधमपि कुप्यमेकमेव यथा-"नाणाविहोवगरणं, गविहं कुप्पलक्खणं होइ । एसो अत्थो भणिओ, छव्विह चउसट्ठिभेओ उ ॥१॥” चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवतीति न कोऽपि विरोधः । पुनः कीदृशस्य तस्य ? 'अमितस्य' परिमाणरहितस्य 'परिवर्जनात्'त्यागात् त्यागनि|मित्तभूतेनेत्यर्थः। 'इच्छाया' अभिलाषस्य यत्परिमाणं इयत्ता तस्य कृतिः करणं तां पञ्चमं 'व्रतं' अधिकारादणुव्रतं 'जगदुः ऊचुर्जिना इति सण्टङ्कः । इदमत्र तात्पर्यम्-परिग्रहविरतिदिधा, सर्वतो देशतश्च, तत्र सर्वथा सर्वभावेषु मू त्यागः सर्वतः, तदितरदेशतः, तत्र श्रावकाणां सर्वतः तत्प्रतिपत्तेरशक्तौ देशतस्तां इच्छापहरिमाणरूपां प्रतिपद्यते, यतः सूत्रम्-"अपरिमिअपरिग्गहं समणोवासओ पञ्चक्खाइ, इच्छापरिमाणं उवसं पजइ, से अपरिग्गहे दुविहे पण्णत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे अ"त्ति । ननु गृहे स्वल्पद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसंभवात् को नाम गुणः इति चेन्मैवं, इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव । यतो नमिराजर्षिवचनमिन्द्रं प्रति, "सुवण्णरूप्पस्स य Join Education in For Private Personal Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy