________________
Jain Education
कस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । तथा चावश्यकसूत्रम् - "थूलगमुसावादं समणोवासओ पञ्चखाइ, से अ मुसावाएं पञ्चविहे पण्णत्ते, तंजहा - कण्णालिए १ गवालिए २ भोमालिए ३ णासावहारे ४ फूडसक्खे य ५” इति । तचूर्णावपि 'जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अहसंकिलेसो अ जायते, तं अट्ठाए वा अणट्टाए वा ण वएज'ति । एतच्चासत्यं चतुर्द्धा-भूतनिहवो १ ऽभूतोद्भावनं २ अर्थान्तरं ३ गह च ४ । तत्र भूतनिहवो यथा - नास्त्यात्मा नास्ति पुण्यं नास्ति पापमित्यादि १, अभूतोद्भावनं यथाऽऽत्मा श्यामाकतन्दुलमात्रोऽथवा सर्वगत आत्मेत्यादि २, अर्थान्तरं यथा - गामश्वमभिवदतः ३, गह तु त्रिधा, एका सावद्यव्यापारप्रवर्त्तिनी यथा क्षेत्रं कृषेत्यादि १ द्वितीया अप्रिया काणं काणं वदतः २ तृतीया आक्रोशरूपा यथा अरे बान्धकिनेय इत्यादि । एतद्वतफलं विश्वासयशःस्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादि, यथा - "सव्वा उ मंतजोगा, सिज्झती धम्म अत्थकामा य । सच्चेण परिग्गहिआ, रोगा सोगा य नस्संति ॥ १ ॥ सच्चं जसस्स मूलं, सर्च विस्सासकारणं परमं । सवं सग्गद्दारं, सचं सिद्धीइ सोपाणं ॥ २ ॥ एतद्ग्रहणेऽतिचरणे च वैपरीत्येन फलम् 'जं जं बच्चइ जाई, अप्पिअवाई तहिं तहिं होइ । न सुणइ सुहे सुसद्दे, सुणइ असोअव्वर सद्दे ॥ १ ॥ दुग्गंधो पूइमुहो, अणिट्ठवयणो अ फरुसवयणो अ । जलए| डमूअमम्मण, अलिअवयणजंपणे दोसा ॥ २ ॥ इहलोए चिअ जीवा, जीहाछेअं वहं च बंधं वा । अयसं धणनासं वा, पार्वती अलिअवयणाओ || ३ |" इत्यादि ॥ २६ ॥ उक्तं द्वितीयमणुव्रतम्, अथ तृतीयं तदाह
For Private & Personal Use Only
w.jainelibrary.org