________________
धर्म
संग्रह.
॥६०॥
परखग्रहणाच्चौर्यव्यपदेशनिबन्धनात् । या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ॥ २७॥ है परस्यान्यस्य खं द्रव्यं तस्य ग्रहणमादानं तस्मात्, कीदृशात् ? 'चौर्येति चौर्य चोरिका तस्य व्यपदेशो व्यवहारस्तस्य निबन्धनं निमित्तं तस्मात्, येन कृतेनायं चौर इति व्यपदिश्यते इतिभावः । तस्माद्या निवृत्तिविरतिः तत्तृतीयमणुव्रतं 'सार्वैः' अर्हद्भिः 'प्रोचें प्रोक्तं इत्यक्षरार्थः । भावार्थस्त्वयम्-अदत्तं चतुर्डी, यदाहुः-"सामीजीवादत्तं, तित्थयरेणं तहेव य गुरूहिं । एअमदत्तसरूवं, परूविअं आगमधरेहिं ॥१॥" यवस्तु कनकादिकं स्वामिनाऽदत्तं तत्वाम्यदत्तं १, यत्फलादि सचित्तं वकीयं भिनत्ति तज्जीवादत्तं, यतस्तेन फलादिजीवेन न निजप्राणास्तस्य दत्ताः २, गृहस्थेन दत्तमाधाकर्मादिकं तीर्थकराननुज्ञातत्वात्साधोस्तीर्थकरादत्तं, एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तं ३, सर्वदोषमुक्तमपि यद् गुरूननिमय | भुज्यते तद्गुर्वदत्तम् ४, अत्र स्वाम्यदत्तेनाधिकारः, तच्च विविध, स्थूल सूक्ष्मं च, तत्र परिस्थूरविषयं चौरव्यपदेशकारणत्वेन निषिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलं, चौर्यबुद्ध्या क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानं, तद्विपरीतं सूक्ष्म, स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं । तत्र श्राद्धस्य सूक्ष्मे यतना, कर्त्तव्या, स्थूलात्तु निवृत्तिः, यतः सूत्रम्-"थूलगादत्तादाणं समणोवासओ पञ्चक्खाइ, से अ अदत्तादाणे दुविहे पण्णत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अत्ति । एतद्रूतस्य च फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यवर्गादि, यद्वादि-"खित्ते खले अरण्णे, दिआ य राओ व सत्थघाए वार
॥६०॥
Jain Education
For Private Personal use only
www.jainelibrary.org