________________
संग्रह.
याण गोवयणं । अपयाणं दवाणं, सव्वाणं भूमिवयणं तु ॥१॥ ननु यद्येवं तर्हि द्विपदचतुष्पदापदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यं, कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढस्वाद्विशेषेण वर्जनार्थमुपादानं, कन्यालीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव । यत आवश्यकचूर्णी-मुसावाए के दोसा? अकधन्ते वा के गुणा ? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगंतरायदोसा य, दुट्ठा वा आतघातं करेज, कारवेज्जा वा, एवं सेसेसु भाणिअव्वा' इत्यादि । तथा न्यस्यते रक्षणायान्यस्मै समर्प्यते इति न्यासः सुवर्णादिस्तस्य निहवोऽपलापस्तद्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तं, अस्य चादत्तादाने(नत्वे) सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वं ४, कूटसाक्ष्यं लभ्यदेय-15 विषये प्रमाणीकृतस्य लश्चामत्सरादिना कूटं वदतः यथाऽहमत्र साक्षीति, अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः ५ इति । अत्रायं भावार्थ:-मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयत्रीडाक्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव, यतः–'अलिअंन भासिअव्वं, अस्थि हु सचंपि जं न वत्तव्वं । सचंपि तं न सच्चं, जं परपीडाकरं वयणं । १। स च द्विविधः, स्थूल सूक्ष्मश्च। तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवश्च स्थूलः, तद्विपरीतः सूक्ष्मः । आह हि-"दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहमो । परिहासाइप्पभषो, थूलो पुण तिब्धसंकेसा ।१।' श्राव
॥ ५९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org