SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ५८ ॥ Jain Education In बादराः, नतु सूक्ष्मनामकर्मोदयवर्त्तिनः सर्वलोकव्यापिनः तेषां वधाभावात्, स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधन्निवृत्तत्वाद्विंशतिविशोपका जीवदया गृहस्थानां तु स्थूलप्राणिवधान्नि - वृत्तिर्न तु सूक्ष्मवधात् पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वाद् इति दशविशोषकरूपमर्द्ध गतं । स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपायो जायते तस्मागृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद्, अन्यथा च शरीरकुटुम्ब - निर्वाहाद्यभावात् एवं पुनरर्द्ध गतं जाताः पञ्च विशोपकाः । सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च, तत्र निरपराधविषया निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुरुरपराधो लघुर्वेति, एवं पुनर गते साद्वौ द्वौ विशोषकौ जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च तत्र निरपेक्षान्निवृत्तिर्नतु सापेक्षाद्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात्, ततः पुनरर्द्ध गते सपादो विशोषक स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति । प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः, यतः 'भूजलजलणानिलवणबितिचउपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तावीसत्ति ॥ १ ॥ इक्कासीई ते करणकारणाणुमइताडिआ होइ । ते चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ॥ २ ॥ इति । तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकवित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात्, एतद्वतफलं चैव For Private & Personal Use Only संग्रह. ।। ५८ ।। jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy