SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 'विरति निवृत्तिः सा'आदिम प्रथमं 'अणुव्रत''स्याद्भवेत्, 'निराग' इति पदेन निरपराधजन्तुविषयां हिंसा प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते, द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितुं न क्षम इत्याचष्टे, 'संकल्पादि'त्यनेन चानुबन्धहिंसा वा आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयं । यतः सूत्रम् 'थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा-संकप्पओ आरम्भओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरम्भओ'त्ति । अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सङ्खारकसत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्कान्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्कान्नसुखाशिकाशाकखादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि, अन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः, तदुच्यते 'परिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणहाए ।शत्ति विवेकः कार्यः। एवं चात्र विशेषणत्रयेण श्रावकस्य | सपादविशोपकप्रमितजीवद्यात्मकं प्रायः प्रथममणुव्रतमिति सूचितं, यत उक्तं 'जीवा थूला सुहुमा, संकप्पारम्भओ भवे दुविहा । सवराह निरवराहा, साविक्खा चेव निरविक्खा ॥१॥ अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्, तत्र-स्थूला दीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यायः पश्चापि LOCCASCENGACAUSACANCIENCE Jain Education irake For Private Personel Use Only Kom.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy