________________
धर्म
संग्रह.
॥ ५७॥
ANSARALSOCALAMICALCAM
अट्ठविहा वा, बत्तीसविहा व सत्त पणतीसा। सोलस य सहस्स भवे, अट्ठसयदुत्तरा वइणो॥१॥त्ति । इदं तु ज्ञेयं-षड्भङ्गीवदुत्तरभङ्गरूपैकविंशतिभङ्गया २ तथा नवभङ्गया ३ तथैकोनपञ्चाशद्भङ्गया ४ तथा सप्तचत्वारिंशत्(दधिकशत)भङ्गया ५ द्वादश द्वादश देवकुलिका निष्पद्यन्ते । यदुक्तम्-'इगवीसं खलु भंगा, निद्दिहा सावयाण जे सुत्ते । ते चिअ बावीसगुणा, इगवीसं पक्खिवेअव्वा ॥१॥ एगवए नव भंगा, निहिट्ठा सावयाण जे सुत्ते । ते चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ॥ २॥ गुणवन्नं खलु भंगा, निहिट्ठा सावयाण जे सुत्ते । ते चिअ पंचासगुणा, गुणवन्नं पक्खिवेअव्वा ॥३॥सीआलं भंगसयं, ते चिअ अडयालसयगुणं काउं। सीयालसएण जुअं, सव्वग्गं जाण भंगाणं ॥४॥' एकादश्यां वेलायां द्वादशवतभङ्गकस-1 वसंख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम् । तत्स्थापनाश्चेमाः (३) एवं संपूर्णदेवकुलिका अपि एकविंशत्याद्भिङ्गयादिषु द्वादश द्वादश भावनीयाः । स्थापना क्रमेण यथा (४-५-६-७) इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणा, बाहुल्येन च द्विविधत्रिविधादिषड्भङ्गयेवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण ॥२४॥ एवं सामान्येन पञ्चाप्यणुव्रतान्युपदर्य नामग्राहं तानि पञ्चभिः श्लोकैर्विवरीषुः प्रथमं प्रथमाणुव्रतमाह
निरागोवीन्द्रियादीनां, संकल्पाच्चानपेक्षया। हिंसाया विरतिर्या सा, स्यादणुव्रतमादिमम् ॥२५॥ निरागसो निरपराधा ये दीन्द्रियादयो द्वित्रिचतुष्पश्चेन्द्रियजीवास्तेषां 'संकल्पाद' अस्थिचर्मदन्तमांसाद्यर्थममुं जन्तुं हन्मीति संकल्पपूर्वकं 'च' पुनः 'अनपेक्षया अपेक्षामन्तरा या हिंसा प्राणव्यपरोपणं तस्या या
॥ ५७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org