SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥५६॥ १२-१ । एतेषां च पूर्वस्य षड्णनेऽग्रेतनो गुण्यराशिरायातीत्यानयने बीजं, एते च षट्पट्त्रिंशदादयो द्वादशापि गुण्यराशयः क्रमशो द्वादशषट्पष्टिप्रभृतिभिर्गुणकराशिभिर्गुणिता आगतराशयः ७२आदयो भवन्ति, ते देवकुलिकागततृतीयराशितो ज्ञेयाः । स्थापना चाग्रे(२)। अत्राप्युत्तरगुणा अविरतसंयुक्ताः १३८४१२८७२०२ भवन्ति, उत्तरगुणाश्चात्र प्रतिमादयोऽभिग्रहविशेषा ज्ञेयाः, यदुक्तम् “तेरसकोडिसयाई, चुलसीइजुआई बारस य लक्खा । सत्तासीअ सहस्सा, दो अ सया तह दुरग्गा य ॥१॥” “दुरग्गत्ति” प्रतिमाद्युत्तरगुणाऽविरतरूपभेवयाधिकाः, एतावन्तश्च द्वादश व्रतान्याश्रित्य प्रोक्ताः, पश्चाणुव्रतान्याश्रित्य तु १६८०६ भवन्ति, तत्राप्युत्तरगुणाविरतमीलने १९८०८ भवन्ति । अत्र चैकद्विकादिसंयोगा गुणकाः, षट्षट्त्रिंशदायो गुण्याः, त्रिंशदादयश्चागतराशयो यन्त्रकादवसेयाः । इयमत्र भावना-कश्चित् पश्चाणुव्रतानि प्रतिपद्यते, तथा किल पञ्चैकसंयोगाः, एकैकस्मिंश्च संयोगे द्विविधत्रिविधादयः षडू भङ्गाः स्युः, तेन षट् पञ्चभिर्गुण्यन्ते जाताः ३०, एतावन्तः पश्चानां व्रतानामेकैकसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे ३६ भङ्गास्तथाहि-आद्यव्रतसम्बन्ध्याद्यो भङ्गकोऽवस्थितो मृषावादसत्कान् षड् भङ्गान् लभते, एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि, यावषष्ठोऽपि भगोऽवस्थित एव मृषावादसत्कान् षड् भङ्गान् लभते, ततश्च षड् षभिर्गुणिताः ३६, दश चात्र द्विकसंयोगाः, अतः ३६ दशगुणिताः ३६०, एतावन्तः पश्चानां व्रतानां द्विकसंयोगे भङ्गाः, एवं त्रिक RECASACRACT ॥ ५६ Jain Education For Private Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy