________________
धर्म
।। ५५ ।।
कृत्य करोति कारयति च ३, अनुमतिस्तु त्रिभिः सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः । द्वि| विधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गास्त्रयः, द्विविधं करणं कारणं च, एकविधेन मनसा यद्वा वचसा यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः, अत्र च द्वौ भङ्गौ, एकविधं करणं, यहा कारणं, त्रिविधेन मनसा वाचा कायेन । एकविधं द्विविधेनेति पञ्चमः, अत्रोत्तरभेदाः षट्, एकविधं करणं यद्वा कारणं, द्विविधेन मनसा वाचा, यदा मनसा कायेन, यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः, अत्रापि प्रतिभङ्गाः षट्, एकविधं करणं यहा कारणं, एकविधेन मनसा यद्वा वाचा यद्वा कायेन । तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्घययैकविंशतिः, तथा चोक्तम् – “दुविहतिविहा २२२ १ १ १ इ छच्चि, तेसिं भेआ कमेणिमे हुंति । पढमिक्को दुन्नि तिआ, दुगेग दो छक्क इगवीसं ३२१३ २ १ ॥ १ ॥" स्थापना चेयं । एवं च षह्निर्भङ्गैः कृताभिग्रहः षड्विधः श्राद्धः, सप्तमोत्तरगुणः - १ ३ ३ २ ६ ६ | प्रतिपन्नगुणव्रतशिक्षाव्रताद्युत्तरगुणः, अत्र च सामान्येनोत्तरगुणानाश्रित्यैक एव भेदो विवक्षितः, अविर - तश्चाष्टमः । तथा पञ्चस्वप्यणुव्रतेषु प्रत्येकं षङ्गीसंभवेन उत्तरगुणाविरतमीलनेन च द्वात्रिंशद्भेदा अपि श्राद्धानां भवन्ति, यदुक्तम् — “दुविहा विरयाविरया, दुविहतिविहाइणट्ठहा हुंति । वयमेगेगं छ चिय, गुणिअं दुगमिलिअ बत्तीसं ॥ १ ॥ " ति । अत्र च द्विविधत्रिविधादिना भङ्गनिकुरम्बेण श्रावकार्हपञ्चाणु
Jain Education International
For Private & Personal Use Only
संग्रह -
।। ५५ ।।
www.jainelibrary.org