________________
४।१। एगविहं दुविहेणं, एगेगविहेण छट्ठओ होइ। उत्तरगुण सत्तमओ, अविरओ चेव अट्ठमओ।२।” द्विविध कृतं कारितं, त्रिविधेन मनसा वचसा कायेन, यथा-स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेत्यभिग्रहवान् प्रथमः; अस्य चानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तैहिसाकरणे तस्यानुमतिप्राप्त; अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेः । त्रिविधत्रिविधायस्तु भङ्गा गृहिणमाश्रित्य भगवत्युक्ता अपि काचित्कत्त्वान्नेहाधिकृताः, बाहुल्येन षभिरेव विकशल्पैस्तेषां प्रत्याख्यानग्रहणात्, बाहुल्यापेक्षया चास्य सूत्रस्य प्रवृत्तेः, काचित्कत्वं तु तेषां विशेषविषयत्वात्,
तथाहि-यः किल प्रविब्रजिषुः पुत्रादिसन्ततिपालनाय प्रतिमाः प्रतिपद्यते, यो वा विशेषं स्वयम्भूरमणादिगतमत्स्यादिमांसं दन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादिकं वा कचिवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधंत्रिविधादिना करोतीत्यल्पविषयत्वान्नोच्यते । तथा द्विविधं द्विविधनेति द्वितीयो भङ्गः, अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसा १, यद्वा मनसा कायेन २, यद्वा वाचा कायेनेति ३, तत्र यदा मनसा वचसा न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव वाचापि हिंसादिकमब्रुवन्नेव कायेन दुश्चेष्टितादि असंज्ञिवत्करोति १, यदा तु मनसा कायेन
न करोति न कारयति, तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वारद्वा वा)चैव लहन्मि घातयामि चेति ब्रूते २, यदा तु वाचा कायेन न करोति न कारयति; तदा मनसैवाभिसन्धिमधि
यः किलनग्रहणात, यात्रत्य भगवत्युपरिग्रहयोरवित्तिपिडा, अन
घ.सं.१०
Jain Education in
For Private & Personel Use Only
Olainelibrary.org