SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥५४॥ स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या सा, स्थूलानां वा त्रसानां हिंसा स्थूलहिंसा, आदिश-18 ब्दात् स्थूलमृषावादादत्तादानाब्रह्मपरिग्रहाणां परिग्रहः, एभ्यः स्थूल हिंसादिभ्यो या विरतिनिवृत्तिस्तां अहिंसादीनीति अहिंसासुनृतास्तेयब्रह्मचर्यापरिग्रहान् अणूनि साधुव्रतेभ्यः सकाशाल्लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघोलघुगुणस्थानिनो व्रतान्यणुव्रतानि, अथवाऽनु पश्चान्महाव्रतप्ररूपणापेक्षया प्ररूपणीयत्वात् व्रतान्यनुव्रतानि, पूर्व हि महाव्रतानि प्ररूप्यन्ते, ततस्तत्प्रतिपत्त्यसमर्थस्यानुव्रतानि, यदाह-"जइधम्मस्सऽसमत्थे, जुज्जइ तद्देसणंपि साहणं ति, तानि कियन्तीत्याह-'पञ्चेति' पञ्चसख्यानि पश्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद्विरतिमित्येकवचननिर्देशः, स सर्वत्र विरतिसामान्यापेक्षयेति । 'शम्भवः' तीर्थकराः 'आहुः' प्रतिपादितवन्तः, किमविशेषण विरतिः ? नेत्याह 'व्रतभङ्गेनेत्यादि । केनचित् द्विविधत्रिविधादीनामन्यतमेन 'व्रतभङ्गेन' व्रतप्रकारेण, बाहुल्येन हि श्रावकाणां द्विविधत्रिविधादयः षडेव | भङ्गाः संभवन्तीति तदादिभङ्गजालग्रहणमुचितमितिभावः, ते च भङ्गा एवम्-श्राद्धा विरता अविरताश्चेति सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति, यत् आवश्यके “साभिग्गहा य णिरभिग्गहा य ओहेण सावया दुविहा । ते पुण विभज्जमाणा, अट्ठविहा हुँति णायव्वा ॥१॥" साभिग्रहा विरता आनन्दा६ दयः, अनभिग्रहा अविरताः कृष्णसत्यकिश्रेणिकादय इति । अष्टविधास्तु द्विविधत्रिविधादिभङ्गभेदेन भवन्ति। तथाहि-"दुविह तिविहेण पढमो, दुविहंदुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं है ५४॥ Jan Education For Private Personal use only tjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy