________________
Jain Education Int
योगवन्दननिमित्तदिगाकारविशुद्धयः । योग्योपचर्येति विधिरणुत्रतमुखग्रहे ॥ २२ ॥ इह विशुद्धिशब्दः प्रत्येकमभिसंबध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् । ततो योगशुद्धिर्वन्दनशुद्धिर्निमित्तशुद्धिर्दिकशुद्धिराकारशुद्धिश्चेत्यर्थः । तत्र योगाः कायवाङ्मनोव्यापार लक्षणास्तेषां शुद्धिः सोपयोगान्तरगमननिरवद्य भाषणशुभचिन्तनादिरूपा, वन्दनशुद्धिरस्खलितप्रणिपातादिदण्डकसमुच्चारणाऽसंभ्रान्तकायोत्स र्गादिकरणलक्षणा, निमित्तशुद्धिस्तत्कालोच्छलितशङ्खपणवादिनिनादश्रवण पूर्णकुम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकन शुभगन्धाघ्राणादिखभावा, दिकशुद्धिः प्राच्युदीचीजिनजिन चैत्याद्यधिष्ठिताशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाभियोगादिप्रत्याख्यानापवादमुत्कली करणात्मिकेति । तथा योग्यानां देवगुरुसाधर्मिकजनदीनानाथादीनामुचिता उपचर्या धूपपुष्पवस्त्र विलेपनासनदानादि गौरवात्मिका चेति विधिः । सच कुत्र भवतीत्याह- 'अणुव्रतेति' अणुव्रतानि मुखे आदौ येषां तानि अणुव्रतमुखानि साधुश्रावकविशेषधर्माचरणानि तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः । विशेषविधिस्तु सामाचारीतोऽवसेयस्तत्पाठश्चायम्चिइ १ संति सत्तवीसा २ बारस ३ सुअ ४ सासणा ५ ऽखिलसुराणं ६ । नवकारो ७ सक्कथओ ८ परमिद्विथओ अ ९ वंदणयं १० ॥ ४॥ सामन्नमिणं तत्तो, आरोवणुस्सग्गु ११ दंडउच्चारो १२ । सत्तखमासमणं, पसत्थे खित्ते जिणभवणाइए पसत्थेसु तिहिकरण नक्खत्तमुहुत्तचंदवलेसु परिक्खिअगुणं सीसं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ 'इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकश्रुत
For Private & Personal Use Only
www.jainelibrary.org