________________
संग्रह.
चय एव । 'अत्र' सम्यक्त्वाणुव्रताव्यितिकरे तत्प्रतिपत्त्युत्तरकालं 'सदा' सर्वकालं "भवति' युज्यते । यतितव्यमुद्यमः कर्त्तव्यः । इति गाथात्रयार्थः । एवमसन्तो गाहा, एवमसन्नपि व्रतग्रहणकाले 'इमोत्ति अयं व्रतपरिणामो जायते, जातोऽपि व्रतग्रहणकाले न पतति कदापि, तस्मादत्र व्रतग्रहणादिविधावप्रमादः कर्तव्यो भवतीति चतुर्थगाथार्थः । एवं च विरतेरभ्यासेनाविरतिीयते । अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति, अनुभवसिद्धं चेदं लिखनपठनसङ्ख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषां, उक्तमपि-"अभ्यासेन क्रियाः सर्वा, अभ्यासात्सकलाः कलाः । अभ्यासाद्ध्यानमौनादि, किमभ्यासस्य दुष्करम?॥१॥"निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्यापि तदनुवृत्तिः स्यात्, यत उक्तम्-"जं अन्भसेइ जीवो, गुणं च दोसं च एत्थ जम्ममी । तं पावइ परलोए, तेण य अब्भासजोएणं ॥१॥” तस्माभ्यासेन तत्परिणामदाढयें यथाशक्ति द्वादशव्रतस्वीकारः, तथा सति सर्वाङ्गीणविरतेः संभवाद, विरतेश्च महाफलत्वात्, अन्येऽपि च नियमाः सम्यक्त्वयुक्तद्वादशान्यतरवतसंबद्धा एव देशविरतित्वाभिव्यञ्जकाः । अन्यथा तु प्रत्युत पार्श्वस्थत्वादिभावाविर्भावकाः, यत उपदेशरत्नाकरे-"सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासाः श्राद्धधर्मस्य पार्श्वस्थाः” इति ॥ २१॥ इत्थं च विधिग्रहणस्यैव कर्त्तव्यत्वात्, 'संग्रहेऽस्य प्रवर्त्तते' इत्यत्र धर्मस्य सम्यग्विधिना प्रतिपत्तौ प्रवर्तत इत्येव पूर्व प्रतिज्ञातत्वाच तद्रहणविधिमेव दर्शयति
रणच नियमाः सम्यक्त्वयुता यत उपदेशरत्नाकरेगास्थाः” इति ॥ २१॥ इत्व इत्येव
॥५१॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org