________________
भावत्वादिति । अथोक्तविपर्ययमाह-अकुशलकर्मोदयतोऽशुभकर्मोपायादिकर्मानुभावात्पतति सन्नपि व्रतग्रहणस्योपरि प्रयत्नं विना अपयाति विरतिपरिणाम इति प्रकृतं, तत्प्रतिपातश्च लिङ्गेनावसीयते तदेवाह -अवर्णो व्रतानां व्रतदेशकानां व्रतवतां वा अश्लाघा अवज्ञा वा अनादर आदिर्यस्य तदवर्णादि(तेन)अवज्ञादिना, आदिशब्दात्तद्रक्षणोपायाऽप्रवृत्त्यादि च, लिङ्ग लक्षणमिह व्रतपरिणामपरिपात इति । न च वाच्यं'विनिर्गत(विरतिगत)परिणामाभावे कथं व्रतग्रहणं ? इति, उपरोधादिना तस्य सम्भवात्, श्रूयन्ते ह्यनन्तानि द्रव्यतः श्रमणत्वश्रावकत्वोपादानानीति प्रथमगाथार्थः । प्रस्तावितोपदेशमेवाह-'तम्हां गाहा तित्थंकर' गाहा । यस्मादसन्नपि विरतिपरिणामः प्रयत्नाजायते, प्रयत्नं विना वाऽकुशलकर्मोदयात् सन्नपि प्रतिपतति, तस्मात्कारणान्नित्यस्मृत्या सार्वदिकस्मरणेन भगवति यतितव्यमिति, तथा बहुमानेन भावप्रतिबन्धेन, चशब्दः समुच्चये, अधिकृतगुणेऽङ्गीकृतगुणे सम्यक्त्वाणुव्रतादौ, इदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येक योज्यते, तथा 'प्रतिपक्षजुगुप्सया' मिथ्यात्वप्राणिवधायुद्धेगेन तथा 'परिणत्यालोचनेन'अधिकृतगुणविपक्षभूता मिथ्यात्वंप्राणातिपातादयो दारुणफलाः, अधिकृतगुणा वा सम्यक्त्वाणुव्रतादयः परमार्थहेतव एव इत्येवं विपाकपर्यालोचनेन, चशब्दः समुच्चय एव । तथा 'तीर्थकरभत्त्या' परमगुरुविनयेन तथा 'सुसाधुजनपर्युपासनया' भावयतिलोकसेवया, चशब्दः समुच्चय एव । तथा 'उत्तरगुणश्रद्धया' प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण,अणुव्रतेषु सत्सु महाव्रताभिलाषेणेतिभावः, चशब्दः समु
HERE
Jain Education inte
For Private & Personel Use Only
Mayainelibrary.org