________________
संग्रह.
॥५०॥
स्थानानि अस्मदादिबायौदयिकभावोद्भतक्रियाकृष्टान्यायान्ति इति चेन्मैवं, शास्त्रार्थापरिज्ञानात, नहि तुर्यगुणस्थाने विरतिक्रियाकरणं शास्त्रे निषिद्धं, किन्तु परमार्थिकाध्यवसायरूपो विरतिपरिणामः, स हि असन्नपि विशुव्रतग्रहणादिक्रियाकारिणां तन्माहात्म्यादेव तद्रहणानन्तरं जायते, सँश्च परिवर्डते, नतु प्रतिपातशीलो भवति । अत एव क्षायोपशमिकानि गुणस्थानानि नास्मदादिबाह्यौदयिकक्रियाकृष्टान्यायान्तीतिबुद्ध्या सम्यग् क्रियायां नोदासितव्यं, प्रयत्नेन तेषामपि सुलभत्वाद्, उपायाधीनत्वादुपेयस्य च, न चैतत् खमनीषिकाविजृम्भितं, यदाहुः श्रीहरिभद्रसूरिवराः पञ्चाशकप्रकरणे सम्यक्त्वव्रतपरिणामस्थैर्यार्थ विधेयगतोपदेशप्रस्तावे-"गहणादुवरि पयत्ता, होइ असन्तोऽवि विरहपरिणामो । अकुसलकम्मोदयओ, पडइ अवण्णाई लिंगमिह ॥१॥ तम्हा णिच्चसईए, बहुमाणेणं च अहिगयगुणम्मी । पडिवक्खदुगुंछाए, परिणइआलोअणेणं च ॥२॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए अ । उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं ॥३॥ एवमसंतोवि इमो, जायइ जाओवि पडइन कयावि । ता इत्थं बुद्धिमया, अपमाओ होइ कायब्वो ॥४॥” आसां व्याख्या-ग्रहणाद्गुरुमूले श्रुतधर्मे त्यादिविधिना सम्यक्त्वव्रतोपादानादुपरि उत्तरकाले, प्रयत्नादुद्यमविशेषाद्धेतोर्भवति जायते, असन्नपि कर्मदोषादविद्यमानोऽपि, संस्तु भूत एवेत्यपिशब्दार्थः । कोऽसावित्याह-विरतिपरिणामः' प्राणातिपातादिनिवर्तनपारमार्थिकाध्यवसाया, उपलक्षणत्वात्सम्यक्त्वपरिग्रहणं, सोपक्रमत्वाद्विरत्याद्यावारककर्मणां, तथाविधप्रयत्नस्य च तदुपक्रमणख
वो ॥४॥" आमतीवि इमो, जायइ जाणपजुवासणाए अनि
Jain Education in
For Private & Personel Use Only
KMjainelibrary.org