SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ एव नियमपूर्व तथाऽभ्यासः कार्यो, यथोक्तं श्राद्धविधिवृत्ती, तथाहि-पूर्व तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिर्दिः सकृद्धा जिनपूजा जिनदर्शनं संपूर्णदेववन्दनं चैत्यवन्दना च कार्येति, एवं सामय्यां गुरौ बृहल्लघु वा वन्दनं, सामग्यभावे नामग्रहणेन वन्दनं नित्यं, वर्षाचतुर्मास्यां पञ्चपादौ वाऽष्टप्रकारीपूजा, यावज्जीवं नव्याम्रपकाम्रफलादेवस्य ढोकनं विनाऽग्रहणं, नित्यं नैवेद्यपूगादेढौंकन, नित्यं चतुर्मासीत्रयवार्षिकदीपोत्सवादौ वाऽष्टमङ्गलढोकन, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यवाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनं, प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्लात्रमहापूजारात्रिजागरणादि, नित्यं वर्षादौ कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासं वा चैत्येऽगरूत्क्षेपणदीपार्थपुम्भिकाकियद्दीपघृतचन्दनखण्डादेः शालायां मुखवस्त्रजपमालाप्रोन्छन-2 कचरवलकाद्यर्थ कियद्वस्त्रकम्बलोर्णादेश्च मोचनं, वर्षासु श्राद्धादीनामुपवेशनार्थ कियत्पट्टिकादेः कारणं, प्रतिवर्ष सूत्रादिनापि सङ्घपूजा कियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान कायोत्सर्गः स्वाध्यायः ४/ त्रिशत्यादिगुणनं च, नित्यं दिवा नमस्कारसहितादेः रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य करणं, द्विः सकृद्धा प्रतिक्रमणादि चादौ नियमनीयानि। नन्वेवमविरतावस्थायां विरतिपरिणामाभावे प्रत्याख्यानप्रतिक्रमणादि (दे.) विरतिधर्मस्य कर्त्तव्यत्वाङ्गीकारे तात्त्विकगुणस्थानावस्था लुप्येत, नहि तुर्यगुणस्थाने पश्चमगुणस्थानादिक्रियाकरणं युक्तियुक्तं, अविरतसम्यग्दृष्टिगुणस्थानहानिप्रसक्ते,नापि च क्षयोपशमादिभावभाव्यानि गुण RAKAKACASSAGAR Jain Education in For Private Personel Use Only Oldjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy