SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte नहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादान हेतुत्वात् ४३ 'नरउ०' नरकवत् उत्रासनीयाः, दुष्टकर्मकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादा सीघातिका कुलपुत्रभार्यावत् ४४ 'खरो०' खरवत्- विष्ठाभक्षकगर्दभवत् दुःशीलाः- दुष्टाचाराः, निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्र गृहोपाश्रयचैत्यगृहगर्त्तावाटिकादौ पुरुषाणां वाञ्छाकारित्वात्, तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४५ ' दुहस्सो०' दुष्टाश्ववत् - कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारैर्निर्लज्जीकृताः, अपि- पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षण हेतुत्वात् ४६ 'बालो' वालवत् - शिशुवत् मुहूर्त्त - हृदयाः, मुहूर्त्तानन्तरं प्रायोऽन्यत्र रागधारकत्वात्, कपिल ब्राह्मणासक्तदासीवत् ४७ 'अंधका०' कृष्णभूतेष्टादिभवमन्ध| कारं अरुणवरसमुद्रोद्भवतमस्कायं वा तद्वद् दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४८ 'विस०" " विषवल्लीवत्- हालाहल विपलतावत् 'अण०' अनाश्रयणीयाः - सर्वथा सङ्गादिकर्त्तुमयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात्, पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ४९ 'दुट्ठ०' दुष्टग्राहा - निर्दयमहामकरादिजलजन्तुसेवितवापीवत् अनवगा - ह्या :- महता कष्टेनापि अप्रवेशयोग्याः सुदर्शन श्रेष्ठिवत् ५० 'ठाण०' स्थानभ्रष्टः ईश्वरो - ग्रामनगरादिनायक| स्तद्वत् यद्वा स्थानं - चारित्रगुरुकुलवासादिकं तस्मात् भ्रष्टः ईश्वरः - चारित्रनायकः साधुरित्यर्थः तद्वत्, यद्वा स्थानं| सिद्धान्त व्याख्यानरूपं तस्मात् भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरो-गणनायक आचार्य इत्यर्थः तद्वत्, यद्वा स्थानभ्रष्टो - दुष्टाचारे रक्त इत्यर्थः, ईश्वरः - सत्यकीविद्याधरस्तद्वत्, अप्रशंसनीयाः - साधुजनैः प्रशंसां कर्त्तुं योग्या नेत्यर्थः ५१ 'किंपाग ०' | किंपाकफलमिव- विषवृक्ष फलमिव मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रि For Private & Personal Use Only w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy