SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ दीनि, शिरसि-उत्तमाङ्गे स्नातः-कृतस्नानः, पूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडे'त्ति कृता माला-पुष्पमाला येन स कृतमालः प्राकृतत्वात् 'मालकडे'त्ति, आविद्धानि-परिहितानि मणिसुवर्णानि । येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहर्त-मलमूषकादिभिरनुपहतं प्रत्यग्रमि-|| त्यर्थः सुमहायं-बहुमूल्यं वस्त्रं परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्ण-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्ठ गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे माला-पुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुङ्कुमादि | विलेपनं यस्य स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽर्धहारो-नवसरिकः त्रिसरक-प्रतीतमेव यस्य स तथा, प्रालंबो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रैवेयकाङ्गलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरत्नानां कटकत्रुटिकैः-हस्तबाह्वाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो| यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृत-आच्छादितं तेनैव सुष्टु कृतं रतिदं च वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीर्पण Jain Education sa For Private & Personel Use Only Galiww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy