SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 484-800 तं. वै. प्र. ॥२८॥ संहननसस्थाने उपदेशश्च सू. १५गा.५४ AGROCCASSROOMCOMMOREASONG णलक्षणेन वर्तते इति सादि उत्सेधबहुल मिति भावः, इदमुक्तं भवति-यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठयुदरादि तत् कुब्जं ४ यत्र पुनरु| रउदरपृष्ट्यादिप्रमाणलक्षणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षहाणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु-निश्चये हे आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते, अथोपदेशं ददातीत्याह 'संघयण' संहननं संस्थानं शरीरादेरुच्चत्वम्-उच्छ्यमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमय-समयं समय प्रति परिहीयते अवसर्पिणीकालदोषेणेति ॥१॥'कोहमा०' क्रोधमानमायालोभाश्च उस्सन्नं-प्रवाहेण वर्धन्ते-पूर्वमनुष्या|पेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि-कूटतोलनाद्युपकरणानि कूटमानानि-कूटकुडवप्रस्थादिमानानि च वर्द्धन्ते तेन कूटतुलादिनाऽनुमानेन-अनुसारेण 'सवं'ति क्रयाणकवाणिज्यादिकं कूटं वर्द्धते इति ॥ २॥ 'विस' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्पमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि-कुडवसेतिकादिप्रमाणानि विषमाणि-असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि-अनेकान्यायकारकाणि राजकुलानि वर्तन्ते, अथ तेन कारणेन तुशब्दोऽप्यर्थः वर्षाण्यपि-संवत्सराण्यपि विषमाणि-दुःखरूपाणि जातानीति ॥३॥ 'विसमे' विषमेषु वर्षेषु सत्सु भवन्ति असाराणि-सारवर्जितानि औषधिवलानि-गोधूमादिवीर्याणि, औषधिदुर्बलत्वेन है|नराणामन्येषामपि आयुः-जीवितं परिहीयते-शीघ्र क्षीयते इति ॥४॥'एवं' एवमुक्तप्रकारेण परिहीयमाने लोके कृष्ण JainEducation For Private & Personal use only w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy