________________
ॐॐॐॐॐॐ
* मणस्य प्रथमता तत्प्रथमता तया 'आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमई'त्ति व्युत्क्रा
गर्भ मासामति उत्पद्यत इत्यर्थः, किंभूतमाहारं -'तदुभयसंसिर्ल्ड'ति तयो-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च-मिलितं
ष्टकावस्था हाच तदुभयसंसृष्टं, कलुष-मलिनं 'किब्बिसं ति कर्बुरमिति, ततः केन क्रमेण शरीरं निष्पाद्यते इत्याह-'सत्ताह'
मित्यादि० यावद् भवेत्तिपा, सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि | अर्बुदो भवति, ते एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येते इति २ ततोऽपि चार्बुदात् पेसी-मांसखण्डरूपा भवति ३ ततश्चानन्तरं साधनं-समचतुरस्रं मांसखण्डं भवति ॥ १७॥ 'तो पढमे' ततः-इह च तच्छुक्रशोणितमुत्तरो-४ त्तरपरिणाममासादयत् प्रथमे मासे कर्जेनं पलं जायते, पञ्चगुञ्जाभिर्माषः षोडशभिर्माणैः कर्षः चतुर्भिः कः पल मिति | वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्रं मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुर्दोहदं जनयतीत्यर्थः ३ चतुर्थे मासे मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः | ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाः-पञ्चाङ्करान् निर्वतयति निष्पादयतीत्यर्थः ५ षष्ठे मासे पीयते| जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितं तत् उपचिनोति-पुष्टं करोतीत्यर्थः ६ सप्तमे मासे सप्त शिराश-| तानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाड्यः ९ नवनवति रोमकूपशतसहस्राणि निवर्त्तयति, रोम्णां-तनुरहाणां कूपा इव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः-शिरोजाः श्मश्रूणि-कूर्चकेशाः ९९०००००, केशश्मश्रुभिः सह 'अछुट्ठा'त्ति सार्धाः तिस्रो रोमकूपकोटीः निवर्तयतीति ३५००००००,
IT
Jain Education
.jainelibrary.org
For Private Personal Use Only
a
l