________________
Jain Educatio
ष्टतो नवलक्षप्रमाणा उत्पद्यन्ते, तप्तायः शलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीव स्थानगमनशीलाः | नारकदेव युगला ग्निवायुवर्जितशे षजीवस्थानागमनस्वभावाः मुहूर्त्त पृथक्त्वकायस्थितिकाः असङ्ख्येयाः संमूच्छिममनुष्या उत्पद्यन्ते चेति, तथा 'बारसमुहुत्त 'ति पुरुषवीर्यस्य कालमानं द्वादश मुहूर्त्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनि के भवत इति, 'पिअ'त्ति पितॄणां पितृसंख्या तस्याः शतपृथक्त्वं भवति, अयमाशयः - उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति - कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्त्तमध्ये उत्कृष्टतो नवभिः पुरुषशतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वातिरश्चां च बीजं द्वादशमुहूर्त्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्मिन्नपि गर्भे लक्षपृथक्त्वं पुत्राणां स्यादिति । ननु देवानां शुक्रपुद्गलाः किं सन्ति उत न ?, उच्यते, सन्त्येव, परं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां - "अत्थि णं भंते ! तेसिं देवाणं सुकपुग्गला ?" हंता अस्थि, ते णं भंते ! तेसिं अच्छराणं की सत्ताए भुज्जो २ परिण मंति ?, गो० ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसनिंदियत्ताए फासिंदियत्ताए इट्ठत्ताए कंतत्ताए मणुन्नत्ताए | मणामन्ताए सुभगताए सोहग्गरूवजोषणगुणलावन्नत्ताए एयासिं भुज्जो २ परिणमंति जाव तत्थ णं जे ते मणपरियारगा
For Private & Personal Use Only
www.jainelibrary.org