________________
नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात् , तथा जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणब्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'सुमय'मिति पाठे तु जन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः॥४५॥ प्रकर्षेण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुदूगलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितो-न प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघः-अवन्ध्यः सफल इत्यर्थः तमेवंप्रकारं धर्मं शरणं प्रपन्नोऽहमिति ॥ ४६ ॥ पापकारिणो नरान् कायन्ति-आह्वयन्तीति नरका-रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांसाक्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं, तथा प्रकृष्टा वादिनः प्रवादिनः, निशब्दो निषेधार्थः, तैः प्रवादिभिः
Jain Education inHOLI
For Private Personal Use Only
R
w.jainelibrary.org