________________
नचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु ॥ ३१॥ साधुभेदानाह-'केवलं असहाय-मत्यादि-18 ज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहि'त्ति अवधिः-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्त वि. ता ज्ञेयाः, 'विउलमइ'त्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात् , तत्र विपुला मतिर्कजुमत्यपेक्षया विशिष्टज्ञानवत्त्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तवर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात् , बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं सूत्रार्थोभयरूपं धरन्ति-योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेण तु आचर्यन्ते-आसेव्यन्ते मोक्षार्थिभिरित्याचार्याः-पञ्चविधाचारधारिणःसूत्रार्थोभयवेदिनो गच्छावलम्बनमूताः पत्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्य-आगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनो द्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एते च आचार्योपाध्यायाः सामान्यतो लौकिकाः कलाचार्यादयोऽपि लभ्यन्ते इति तयवच्छेदायाह-जिणमयंमि'त्ति जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतब्रहणं चोपलक्षणम् , तेन प्रवर्तकस्थविरगणावच्छेदका अप्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपासंयमव्यापारेषु प्रवर्तयन्तो गणतप्तिकराः प्रवर्तका
वर्तिसंज्ञिपचालणं सूत्रार्थोभयरूपं मोक्षार्थिभिरित्याचायो:
येभ्य इत्युपाध्यायापालभ्यन्ते इति ||
तं.वै.प्र.१२||
Jnin Educati
on
For Private & Personal Use Only
Daw.jainelibrary.org