________________
तं. वै. प्र.
उपदेशः गा.१३०
EASERASNA
परैर्मुक्तगृहारम्भभरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात् कार्यमिति ॥८॥ अथोपदेशान्तरं दददाह___ जड्डाणं वड्डाणं निचिन्नाणं च निविसेसाणं । संसारसूयराणं कहियंपि निरत्ययं होइ ॥९॥ (१३०) किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ १०॥ (१३१) पुत्ता चयंति मित्ता चयंति भजावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुविअजिओधम्मो॥११॥ (१३२) | 'जडाणं व.' जड्डानां-द्रव्यभावमूर्खाणां वड्डानां-केषांचित् मठपारापतसदृशानां वृद्धानां निर्विज्ञानानां-विशिष्टज्ञानरहितानां निर्विशेषाणां-अपवादोत्सर्गज्येष्ठेतरादिविशेषरहितानां संसारशूकराणां एवंविधानां गृहस्थानां साध्वाभासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईनृपमारकादिवत् ॥९॥ 'किं पुत्ते' पुत्रैः-अङ्गजैः किं ?, न किञ्चित् , पितृभिर्वा किं ?, अर्थेनापि पिण्डितेन मीलितेन बहकेन-प्रभूतेन किं ?, नन्दमम्मणादीनामिव योऽङ्गजादिकलापः। मरणदेशकाले-मरणप्रस्तावे न भवत्यालम्बनं-आधाररूपं किञ्चिदिति ॥ १०॥ 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'मित्तं' मित्राणि त्यजन्ति, सहजमित्रपर्वमित्रवत् , भार्याऽपीम-प्रत्यक्ष जीवन्तमित्यर्थः मृतं वा स्वकान्तं त्यजति, यद्वा
भार्याऽपि णमिति वाक्यालङ्कारे आर्षत्वादकारविश्लेषेऽमयमिति अमृतं-जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽलन्यत्-पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते वनमालावत् , यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त'मिति तस्मिन् प्रस्तावे मरण
॥५५॥
in Education
n
asal
For Private & Personel Use Only
iww.jainelibrary.org