SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुनर्लोभः॥१॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेा चाटुभयार्थदानविनयक्रोधक्षमामाईवैः । लजायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैर्गृह्यन्ते न विभूतिभिश्च ललना ६ दुःशीलचित्ता यतः॥१॥" ॥४॥५॥'एरिसगुण' ईदृशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां 8 कपिकवत्-वानरवत् (अ)संस्थितमनसां नैव 'भे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ ६॥'निडन्नयं' यादृशमिति गम्यते, निर्धान्यक-धान्यकणविवर्जितं 'खलयंति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणी| यत्वात् सुखधान्यकणाभावाच्च, यादृशं पुष्पैः-सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् , यादृशा निर्दुग्धिका-दुग्धरहिता धेनुः-गौस्तादृशा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात् , तथा लोके अपिशब्दः | पूरणार्थे यादृशं 'अतिल्लिय'ति सर्वथा तैलांशरहितं पिण्डं-खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं परमार्थेन स्नेहतैलविवर्जितत्वात् ॥७॥ 'जेणंत.' स्त्रीणां येन परमवल्लभेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण-विना लोचनानि-प्रफुल्लनेत्राणि तत्क्षणे 'निमिसंति०' सङ्कचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण-विना | विकसन्ति-प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे 'इति प्राकृतत्वात् तृतीयार्थे सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्ववल्लभे (न प्रवर्त्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं-स्वमानसं सहस्राकुलं-स्वकान्तव्यतिरिक्तपुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत् , अतो मुनिवरैः-रत्नत्रयरक्षण तं.वै.प्र.१० Jain Education a l For Private Personel Use Only
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy