SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ भवन्ति, एतैश्च पदैः तानि (८३२५) उक्तरूपाणि मुहूर्तानि गुण्यन्ते तदा यथोक्तं (३१४१०२२५) एतद् भवतीति, इत:| उक्तरूपात् वातादिकारणेन हीनाधिका निःश्वासोच्छ्रासा भवन्तीति ॥७-८॥ अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाह आउसो!-इत्थीए नाभिहिट्ठा सिरादुगं पुष्फनालियागारं तस्स यहिट्ठाजोणी अहोमुहा संठिया कोसा ॥९॥ तस्स य हिट्ठा चूयस्स मंजरी [जारिसी] तारिसा उमंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति १० |कोसायारं जोणि संपत्ता सुक्कमीसिया जइया । तइया जीवुववाए जुग्गा भणिआ जिणिंदेहिं ॥११॥ | "आउसो! इत्थी." हे आयुष्मन् !-हे गौतम! स्त्रियाः-नार्याः नाभेरधः-अधोभागे पुष्पनालिकाकारं-सुमनोवृन्तसदृशं शिराद्विक-धमनियुग्मं वर्तते, च पुनस्तस्य-शिराद्विकस्याधो योनिः-स्मरकूपिका संस्थिता अस्ति, किंभूता -अधोमुखा, पुनः किंभूता?-'कोस'त्ति कोशा-खड्गपिधानकाकारेत्यर्थः ॥९॥"तस्स य.” तस्याश्च योनेरधः-अधोभागे चूतस्य'आम्रस्य यादृश्यो मञ्जर्यो-वल्लरयो भवन्ति तादृश्यो मांसस्य-पललस्य मञ्जरयो भवन्ति, ता मञ्जरयः स्त्रीणां मासान्ते यदजनमिदं | दिनत्रयं श्रवति तद्ऋतुकालः-स्त्रीधर्मप्रस्तावस्तस्मिन् स्फुटिता:-प्रफुल्लाः सत्यः शोणितलवकान्-रुधिरबिन्दून् विमुञ्चन्तिश्रवन्ति ॥१०॥ "कोसा."तेरुधिरबिन्दवः कोशाकारां योनि सम्प्राप्ताः सन्तःशुक्रमिश्रिताः-ऋतुदिनत्रयान्ते पुरुषसंयोगेन अपुरुषसंयोगेन वा पुरुषवीर्येण मिलिताः 'जइय'त्ति यदा भवन्ति 'तइय'त्ति तदा जीवोत्पादे-गर्भसम्भूतिलक्षणे योग्या भणिता-कथिता जिनेन्द्रः-सर्वज्ञैरितिाननु कथं पुरुषासंयोगे पुरुषवीर्यसम्भव इति?,अत्रोच्यते,स्थानाङ्गाभिप्रायेण यथा-"पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा,तं०-इत्थी दुधिप्पयडा दुन्निसन्ना सुक्कप्पोग्गले अधिद्विजाश्सुक्क Jain Educational For Private & Personal Use Only w ww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy