________________
सुमति
साधु श्रीदशवै० अ०५, उ०१
अकल्प. निषेधः
गा० ८९-९३
॥६२॥
'साहटुत्ति, संहृत्यान्यस्मिन् माजने ददाति, "तं फासुगमवि वजए, तत्थ फासुए फासुयं साहरइ, फासुए अफासुयं साहरइ, अफासुए फासुयं साहरइ, अफासुए अफासुर्य साहरह ४, तत्थ जं फासुए फासुयं साहरइ, तत्थवि थेवे थेवं साहरइ, थेवे बहुं साहरइ, बहुए थेवं साहरइ, बहुए बहुयं साहरइ ४" एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षड्जीवनिकायिकेषु ददाति तथा सचित्तं-अलातपुष्पादि घट्टयित्वा-संचाल्य च ददाति । तथैव श्रमणार्थप्रव्रजितनिमित्तमुदकं संप्रणुद्य भाजनस्थं प्रेयं ददाति ॥ ८९॥ तथा ओगाहइत्ता-अवगाह्य-उदकमेवात्मनोऽभिमुखमाकृष्य ददाति । तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घट्टयित्वेत्युक्तेऽपि भेदेनोपादानं अस्ति चायं न्याया-"यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथाब्राह्मणा आयाता वशिष्टोऽप्यायात" इति, ततश्चोदकं चालयित्वा आहरेद् आनीय दद्यादित्यर्थः । किं तदित्याह-पानभोजनंओदनारनालादि । तदित्थम्भूतां ददती प्रत्याचक्षीत-निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ॥९०॥ 'पुरेकम्मे 'ति, पुरः कर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोज्झनव्यापारेण, तथा दा-डोवसदृशया, भाजनेन वा-कांस्यभाजनादिना ददती प्रत्याचक्षीत-प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेव इति सूत्रार्थः ॥९१ ॥ एवं, एवं-उदकाइँण, हस्तेन-करेण, उदकाो नाम गलदुदकविन्दुयुक्तः । एवं सस्निग्धेन हस्तेन, सस्निग्धो नाम ईषदुदकयुक्तः, एवं सरजस्केन हस्तेन-सरजस्को नाम पृथिवीरजोगुण्डितः । एवं मृद्गतेन | हस्तेन, मृद्गतो नाम कईमयुक्तः। एवं ऊषादिष्वपि योज्यं । एतावन्त्येव एतानि सूत्राणि नवरमूषः-पांशुक्षारः, हरिताल
।। ६२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org