________________
श्री
सुमति
साधु०
दश०
अ० ५
॥ ५९ ॥
Jain Education Internat
पुष्पाणि जातिपुष्पादीनि, बीजानि - शालिवीजादीनि विप्रकीर्णानि - अनेकधा विक्षिप्तानि परिहर्तुमशक्यानीत्यर्थः । कोष्ठके कोष्ठकद्वारे वा, तथाऽधुनोपलिप्तं साम्प्रतोपलिप्तं, आर्द्रकं-अशुष्कं कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेत् दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति ।। ८० ।। किंच 'एलगं 'ति, एडकं - मेषं, दारकं - बाल, श्वानं मण्डलं, वत्सकं वापि क्षुद्रवृपभलक्षणं कोष्ठके उल्लङ्घ्य पद्भ्याम् न प्रविशेत्, व्यूह्य वा प्रेर्य वेत्यर्थः । संयतः - साधुः, आत्मसंयमविराधनादोषाल्लाघवाच्चेति ॥ ८१ ॥
असंत्तं पलोइज्जा, नाइदूरा वलोअए । उप्फुल्लं न विनिज्झाए, निअट्टिज्ज अयंपिरो ॥ ८२ ॥ अइभूमिं न गच्छेजा, गोअरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मिअं भूमिं परक्कमे ॥ ८३ ॥ तत्थेव पाडलोहजा, भूमिभागं विअक्खणो । सिणाणस्स य वञ्चस्स, संलोगं परिवज्जए ॥ ८४ ॥ दगमट्टि आयाणे, वीआणि हरिआणि अ । परिवज्जंतो चिट्ठिज्जा, सर्विवदिअसमाहिए ॥ ८५ ॥
इहैव विशेषमाह-'असंसत्तं 'ति असंसक्तं प्रलोकयेत् न योषिद्द्दष्टेर्दृष्टिं मीलयेदित्यर्थः, रागोत्पत्ति लोकोपघातदोषात् । तथा 'नातिदूरं प्रलोकयेत्' दायकस्यागमन मात्र देशं प्रलोकयेत्, परतचौरादिशङ्कादोषः । तथोत्फुल्लं - विकसित लोचनं न निज्झाए इति-न निरीक्षेत गृहपरिच्छदमप्यदृष्टकल्याण इति लाघवोत्पत्तेः । तथा निवर्त्तेत गृहादलब्धेऽपि सति, अजल्पन्- दीनवचनमनुच्चारयन्निति ॥ ८२ ॥ तथा ' अहभूमिं ने'ति अतिभूमिं न गच्छेद्, अननुज्ञातां गृहस्थैः,
For Private & Personal Use Only
गोचरीविधिः
॥ ५९ ॥
www.jainelibrary.org