SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गोचरी| विधिः सा श्री. सुमतिसाधु० दशवै. ॥५७॥ एवमवचमपि द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनमिति। दोषा उभयविराधनालोकोपघातादय इति ॥७३।। अत्रैव विधि- माह-'आलोयं थिग्गल'मिति, आ(अव)लोकं-निर्यहकादिरूपं, थिग्गलं-चितं द्वारादि, संधि-चितं क्षत्रं, उदकभव नानि-पानीयगृहाणि चरन् भिक्षार्थ न विनिज्झाइत्ति-विनिध्यायेत्-विशेषेण पश्येत् , शङ्कास्थानमेतदवलोकादि, अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति ॥ ७४ ॥ किं च-"रन्नो गिहे'त्यादि राज्ञः-चक्रवर्त्यादेः, गृहपतीनां-श्रेष्ठिप्रभृतीनां रहस्यस्थानानि वर्जयेदिति योगः। आरक्षकाणां च-दण्डनायकादीनां, रहास्थानं-गुवापवरकमन्त्रगृहादि सङ्क्लेशकरं-असदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति दूरतः परिवर्जयेदिति ॥ ७५ ॥ 'पडिकुट्टकुलं 'ति, प्रतिकुष्टकुलं द्विविध-इत्वरं यावत्कथिकंच, इत्वरं मूतकयुक्तं, यावत्कथिकं-अभोज्यं एतन्न प्रविशेत् , शासनलघुत्वप्रसङ्गात् । मामकं यत्राह गृहपतिर्मा मम कश्चिद् गृहमागच्छेत् , एतत् वर्जयेत् भण्डनादिप्रसङ्गात् । अचिअत्तकुलं-अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति कुतश्चिनिमित्तान्तरात्, एतदपि न | प्रविशेत , तत्सङ्क्लेशनिमित्तत्वप्रसङ्गात् । चियत्तंति एतद्विपरीतं अचिअत्तविपरीतं प्रविशेत् कुलं, तदनुग्रहप्रसङ्गादिति ।। ७६ ॥ किंच-'साणीपावारपिहिय'मिति शाणी-अतसीवल्कजा पटी, प्राचार:-प्रतीतः, कम्बलाद्युपलक्षणमेतत् , एवमादिभिः पिहितं-स्थगितं, गृहमिति वाक्यशेषः । आत्मना-स्वयं, नापवृणुयात्-नोद्घाटयेदित्यर्थः । अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात् , किमविशेषतो ? नेत्याह-अवग्रहमयाचित्वा-आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वेति ॥ ७७ ।। Jain Education Internationa For Private Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy