________________
श्री
गोचरीविधिः
सुमति
साधु० दशवे.
पडिकुटकुलं न पविसे, मामगं परिवजए। अचियत्तकुलंन पविसे, चियत्तं पविसे कुलं । ७६ ॥ साणीपावारपिहियं, अप्पणा नावपंगुरे। कवाडं नो पणुल्लिज्जा, उग्गहसि अजाइया ॥ ७७॥
'साणं 'ति श्वानं लोकप्रतीतं, सूतां गां-अभिनवप्रसूतां, हप्त-दपितं, किमित्याह-गोणं हयं गज, गौः-बलीवदा, हयः-अश्वः, गजो-हस्ती, तथा 'संडिम्भं' बालक्रीडास्थानं, कलह-सवाक्प्रतिबद्धं, युद्ध-खड्गादिभिः, एतद्रूरतोदूरेण परिवर्जयेत्, आत्मसंयमविराधनासम्भवात् , श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः ॥ ७१ ।। अत्रैव विधिमाह'अणुन्नए 'त्ति अनुन्नतो-द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान् , नावनतो-द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायो भावानवनतोऽलब्ध्यादिनाऽदीनः, अप्रहृष्टः-अहसन् , अनाकुल:-क्रोधादिरहितः, इन्द्रियाणि-स्पर्शनादीनि, यथाभाग-यथाविषयं, दमयित्वा-इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनि:-साधुश्चरेत्गच्छेत् , विपर्यये तु-प्रभृतदोषप्रसङ्गात , तथाहि-द्रव्योन्नतो लोकहास्यो, भावोन्नत ईयाँ न रक्षति, द्रव्यावनतो बक इति सम्भाव्यते, भावावनतः क्षुद्रमत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यां नार्हति ॥७२॥ किं च-'दवदवस्स'त्ति द्रुतं द्रुतं-त्वरितमित्यर्थः, न गच्छेद् भाषमाणो वा गोचरे न गच्छेत् , तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाद् द्विविधं-द्रव्योचं धवलगृहवासि, भावोच्च जात्यादियुक्तं,
N
॥५६ ।।
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org